शयनात् पूर्वम् | Prayer before Sleeping at Night

शयनात् पूर्वम् | Prayer before Sleeping at Night रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम् । शयने यस्स्मरेन्नित्यं दुःस्वप्नं तस्य नश्यति ॥ कर-चरण-कृतं वाक्-कायजं कर्मजं वा श्रवण-नयनजं वा मानसा वापराधम् । विहितमविहितं वा सर्वमेतत् क्षमस्व जय जय करुणाब्धे श्री महादेव शम्भो ॥

एक-श्लोकी रामायण | Ek shloki Ramayana

एक-श्लोकी रामायण | Ek shloki Ramayana आदौ राम-तपोवनाभिगमनं हत्वा मृगं काञ्चनम्। वैदेही-हरणं जटायु-मरणं सुग्रीव-संभाषणम् । वाली-निग्रहणं समुद्र-तरणं लङ्कापुरी-दाहनम् । पश्चाद्रावण-कुम्भकर्ण-हननं एतद्धि-रामायणम् ॥

भोजनात् प्राक् | Breakfast Prayer Sanskrit

भोजनात् प्राक् | Breakfast Prayer Sanskrit ब्रह्मार्पणं ब्रह्महविः ब्रह्माग्नौ ब्रह्मणाहुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना ॥ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापन समायुक्तः पचाम्यन्नं चतुर्विधम् ॥ अन्नपूर्णे सदापूर्णे शङ्कर-प्राण-वल्लभे । ज्ञान-वैराग्य-सिध्यर्थं भिक्षां देहि च पार्वती ॥

अपराध क्षमार्पण | Confession Mantra Sanskrit

अपराध क्षमार्पण | Confession Mantra Sanskrit यदक्षर-पद-भ्रष्टं मात्रा-हीनं च यद्भवेत् । तत् सर्वं क्षम्यतां देव परमेश नमोस्तुते ॥ उपचारापदेशेन कृतानहरहर्मया । अपचारान् इमान् सर्वान् क्षमस्व पुरुषोत्तम ॥ विसर्ग-बिन्दु-मात्राणि पद-पादाक्षराणि च । न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥