सर्वस्मिन् विश्वे विख्यातस्य महाकाव्य रामायणस्य रचनाकारः महर्षिः वाल्मिकिः संस्कृतस्य आदिकविः मन्यते। एकदा सः ऋषि: शिष्यैः सह तमसानद्याः तीरे भ्रमति स्म। सहसा क्रौंच मिथुनयोः एक व्याघेन वध्यमानम् अवलोक्य, करुणार्द्र सः व्याधम् अवदत् ।
‘मा निषाद् प्रतिष्ठा त्वमगमः शाश्वतीः समाः।
यत्क्रौञ्चमिथुनदिकमवधीः काममोहितम्।‘
एतत् श्रुत्वा व्याधोऽपि पश्चात्तांपदग्धः अभवत्। एतत् कथ्यते यत् तदैव स्वयं ब्रह्मा भूमौ आगच्छत्, मुनिं च रामकथां रचयितुम् अप्रेरयत्। एवं रामायण नाम महाकाव्यस्य निर्माणं जाता।
रामायणस्य रचनाकाल: ख्रिष्टाब्द पूर्व पञ्चम-शतकमस्ति। अस्य काव्यस्य छन्दः ‘अनुष्टुप:’ अस्ति। अस्मिन् काव्ये महाकाव्यस्य सर्वाणि लक्षणानि सन्ति। काव्ये कृतं प्रकृतिवर्णनम् अतीव मनोरमम् दृश्य अस्ति। षड्ऋतूनां, नदीनां, पर्वतानां वर्णनमपि सुन्दरम्। उपमा, अनुप्रासादि अलंकाराणाम् उपयोग: सुन्दराणि रूपाणि च दृश्यन्ते अस्मिन् काव्ये।
कवे: शैली अतिगम्भीरा, लालित्यपूर्णा च अस्ति। भारतीयाः अनेके कवयः वाल्मीकेः काव्यशैल्या प्रभाविताः सन्ति। रामायण महाकाव्यं तु तेषां स्फूर्तिस्थानं खलु। नूनम् अयम् आदिकविः सर्वेषां कवीनाम् आदर्शः एव। प्रकृत्याः स्वाभाविक वर्णनं, तथा अप्राकृतिक-दृश्यानां सजीव चित्रणं, भाषा सौष्ठवता, आदयः रामायणस्य विशेषता: सन्ति।
वाल्मीकेः काव्यं सालङ्कृतं परं सरलमस्ति। अस्य चरित्रचित्रणम् अप्रतिमम्। सर्वे पात्रा: सजीवाः विद्यन्ते।
रामायणस्य प्रमुख रस: करुणः। कविना सूचितः शोकः काव्यरूपेण श्लोकत्वम् आगतः इति कथ्यते।
हिन्दूसमाजे रामायणस्य महत्त्वम् अधिकम् अस्ति। अद्यपि प्रतिगृहे एतत्काव्यं पूज्यते। आदिकविना दत्तः अयम् अमूल्यः निधिः सर्वे: पूजनीयः। ‘रामरक्षास्तोत्रे उचितमुक्तम्-
‘कूजन्तं राम रामेति मधुरं मधुराक्षरम्
आरुह्य कविताशाखां वन्दे वाल्मीकि कोकिलम्।’