रेलयात्रा | My Train Journey Essay in Sanskrit
अति विचित्रा: वैज्ञानिकाः आविष्कारा: मानवम् आश्चर्यान्वितं कुर्वन्ति । ते मानवानां कल्याणं कुर्वन्ति, मनांसिच रञ्जयन्ति। तेषु आविष्कारेषु वाष्पयानस्य आविष्कारोऽपि अतीव विचित्रः अस्ति।
भारतवर्षे सर्वप्रथमं १८५३ तमे ख्रीष्टाब्दे वाष्पयानं प्रचलितम अभवत् ।। अद्य तु वाष्पयानानि सर्वत्रैव इतस्ततः धावन्तः दृश्यन्ते अस्माकं शरीरस्य, मनस, मस्तिष्कस्य च श्रान्तिः यात्रया दूरी भवति । अस्माकं देशे यातायातस्य अनेकानि साधनानि सन्ति । यथा-रेलयानम्, वायुयानम्, जलयानम्, मोटरयानम् इति । तेषु रेलयात्रायाः विशिष्टं महत्त्वम् अस्ति।
अस्मिन् वर्षे अस्माकं विद्यालये ग्रीष्मावकाशाः अभवन् । मया वाष्पयामेन देहरादून नगरं गन्तुं विचारितम् । तदा अहं यात्रायै आवश्यक सामग्री नीत्या वाष्पयनस्थिति स्थानं (स्टेशन) गतवान् । अहम् अधिकारपत्र (टिकिट) गृहीत्वा प्रतीक्षालये अगच्छम् । तत्र कश्चित् अभक्षयत्, कश्चित् जलम् अपिबत् कश्चित् च समाचार पत्रम् अपठत् । अचिरादेव वाष्पयानम् आगतम् ।।
अहं गाने सुखेन अतिष्ठम्। रात्रौ दशवादन समये वाष्पशकटी मेरठ नगरतः प्रचलिता। हदये समुपजातो नवीनोत्साहस्य प्रादुर्भावः । हिमालयस्य अधित्यकायाम स्थितम् देहरादूनम् यदा अहम् प्राप्तम् तदा मार्गे मनोहारि दृश्यं पश्यन् विमुग्धहृदयः अहम् आत्मानम् अपि विस्मृतवान् । मार्गे अनेकानि वाष्पशकटी विश्रामस्थलानि समायातानि । प्रातः पञ्चवादन समये अहं देहरादून नगरं प्राप्तः ।।
ततः यात्रा सामिग्रीम् एकस्य मित्रस्य गृहे स्थापयित्वा तेनैव मित्रेण सह देहरादून स्थितम् वन महाविद्यालयम्, सेना प्रशिक्षण अकादमीम्, दून स्कुलम् अवलोकयितुम् प्रस्थितः । अन्येद्युः देहरादूनात् नातिदूरे स्थिताम् सहस्त्रधाराम् दृष्टं तस्याम् स्नातुम् च गतः। तस्याः सहस्त्रधारायाः कूले आबाल वृद्धाः युवतयश्च सशरन्तः, तिष्ठन्त; वार्तालापं कुर्वन्तः अवलोक्यन्ते स्म । सानार्थिनः स्नानम् कुर्वन्तः दृष्टिपथम् आयाताः । पर्वतानाम् साम्राज्ञी मसूरीम् दृष्टुमपि अहे यातः । सा नगाधिराजस्य क्रोडे स्थिता इव प्रतीयते ।।