विद्यार्थी जीवनम् | Student Life Essay in Sanskrit
यस्मात् समयादारभ्य यावत् समय पर्यन्तं विद्याध्ययनं भवति स सम्पूर्ण समयमेव ‘विद्यार्थी जीवनम्’ इति कथ्यते । महर्षिभिः आचार्य मानवस्य सम्पूर्ण जीवनम् चतुभगिषु विभक्तम् । तेषु प्रथमः भागः विद्याध्ययनस्य वति । अयं कालः एव जीवनस्य स्वर्णकालः अस्ति । अस्मिन् काले एव मानवशरीरस्य बुढेश्च विकासो भवति ।
विद्यार्थी जीवने बालस्य कोमलायां बुद्धौ ये शोभना: अशोभनाः वा संस्काराः। अंकिताः भवन्ति ते एव यौवने वार्धक्ये च फलिताः भवन्ति । अतः विद्यार्थिभ्यः उचितम् यत् ते बाल्ये विद्याध्ययने उपेक्षा परित्यजन्तु । तस्मात् सर्वाणि सुखानि विहाय विद्याध्ययने संलग्नो भवेत् । न हि किमपि क्षणं विद्यायाः अध्ययनं बिना व्यर्थमेव यापयन्तु। अतएव सत्यमेव उक्त केनापि विदुषा—
क्षणशः कणशश्चैव विद्यामर्थञ्च चिन्तयेत् ।
। | क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ।।
ये बालकाः छात्रजीवने सुखम् इच्छन्ति प्राप्नुवन्ति च ते युवावस्थायाम वार्धक्ये च दु:खमेव अनुभवन्ति । परन्तु ये दुःखानि सहित्वा मनसा विद्याध्ययन कुर्वन्ति, गुरोः आज्ञाम् पालयन्ति तेषां भावीजीवनम् सुखी जीवनम् भवति । अतः सुखेकाः बालाः विद्याध्ययने न कदापि अग्रगण्याः भवन्ति । सुप्तु उक्तम् केनापि विवरेण्येन –
सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ।।
सुखार्थी चेत् त्यजेत् विद्या विद्यार्थी चेत् त्यजेत् सुखम्। ।
विद्यार्थिनाम् कृते पंच लक्षणानि उक्तानिः –
काक चेष्टा बोध्यानं श्वान् निद्रा तथैव च।
अल्पाहारी गृहत्यागी विद्यार्थी-पश्चलक्षणम् ॥
अन्य गुणापेक्षया विद्यार्थीजीवने ब्रह्मचर्यस्य महत्त्वं सर्वाधिक वर्तते । ब्रह्माम्चर्येण एव शरीर स्वस्थः भवति । स्वस्थे शरीरे एवं स्वस्थ मस्तिष्क भवति । स्वस्था; छात्रा: एव ज्ञानं लब्धं समर्थाः भवन्ति । ब्रह्मचर्येण बिना आधनिकाः।
छात्राः जीवन्तः अपि मृताः एव, चक्षुष्मन्तः अपि चक्षुर्विहीनाः एव, बलहीनाः कान्तिहीनाः पीतवर्णाः एव दृश्यन्ते ।
प्राचीन काले कृष्णः आरुणिः एकलव्यः आदयः अनेके महापुरुषाः स्वीयां महत्ता परित्यज्य विद्याध्ययन काले महद्भिः अपि कष्टानि सोढानि । ये छात्रा: विद्यायाः अर्जन-काले दत्तचित्ता भूत्वा कष्टानि सोवा महता परिश्रमेण विद्याध्ययनं कुर्वन्ति ते विद्वसिः भूत्वा सर्वत्र सम्मान प्राप्नुवन्ति, धनम् अर्जन्ति, संसारे च सर्वविधेषु कार्येषु साफल्यं लभन्ते । उक्तम् च:
“स्वेदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते”
विद्या प्रापतार्थ गुरु भक्तेः आवश्यकता वर्तते । गुरु भक्त्या बिना विद्या प्राप्तिः असम्भवा एव । अतएव उच्यते:-
गुरु शभूषया विद्या पुष्कलेन धनेन वा।
अथवा विद्यया विद्या चतुर्थान्नोपलभ्यते ।। १७ । ।
ये गुरु भक्ताः न भवन्ति तेषां जीवन-साफल्यम् संदिग्धमेव । तेषां न यशः वर्धते न विद्या फलवती भवति । अतः विद्यार्थी जीवनस्य सफलतार्थ यत्र । परिश्रमस्य, अनुशासनस्य महत्त्वम् अस्ति तत्र गुरुशुश्रुषाऽपि न्यूना न।।