भारतीयसङ्कल्पानुसारं विद्याविनयसम्पत्तिः विनयाधानम् इत्यादिप्रयोगः एव साधु । यतः विद्या ददाति विनयम् इति खलु प्रसिध्दम् । प्रामाणिकग्रन्थेषु विद्याभ्यासः इति पदप्रयोगः अपि न दृश्यते विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि इत्येवं भगवद्गीतायां प्रयोगः अनेन प्रयोगेण अस्य लक्ष्यमपि अवगच्छति । विनयनमेव विद्यया प्राप्तव्यम् । अपरया भाषया वदामः चेत् स्वभावसंस्करणमेव शिक्षणम् इति भावः । श्रीमद्विवेकानन्दस्वामिपादादयः स्वभावसंस्करणमेव शिक्षणमिति स्पष्टीकुर्वन्ति च । अत एव कथयामः विद्याविहीनः पशुः इति ॥
विनयः गुणसंस्कारः चेत् तदर्थ सर्वसमर्पणम् एव मार्गः । गुरुसमर्पणं, गुरुशुश्रूषा, योगाभ्यासः, अध्यात्मशास्त्रपठनम्, ब्रह्मचर्यम्, श्रवण-मनन निदिध्यासनादयः च इच्छाशक्तेः ज्ञानशक्तेः क्रियाशक्तेः च वर्ध्दनम् कारयन्ति । तत् पुरुषार्थसाधनाय समर्थः मार्गः भवति च ।