इन्द्रः भारतियसनातनविश्वासानुगुणं देवतानाम् अधिपतिः अस्ति। शक्रः इति इन्द्रस्य नामान्तरमपि वर्तते। सः युद्धस्य वर्षायाः च अधिदेवता अस्ति । वैदिककाले इन्द्रः सर्वोच्चः देवः आसीत् कालान्तरेण पौराणिककथासु अस्य स्तर स्थानं किञ्चित् अवनतम् ।ॠग्वेदस्य २५०सूक्तेषु इन्द्रस्य वर्णनं कृतम् । अपि च ५०सूक्तेषु अन्यदेवताभिः इन्द्रस्य वर्णनं कृतम् । एव ऋग्वेदस्य सतुर्थांशेषु इन्द्रदेवस्य वर्णनं दृश्यते । अतः एवं वक्तुं शक्यते यत् इन्द्रः वैदिकयुगस्य सर्वप्रियः देवः । इन्द्रशब्दस्य व्युत्पत्तिः अर्थः च अस्पष्टः अस्ति । बहूनां विदुषाम् अपिप्रायः अस्ति इन्द्रः झंझावातस्य अधिदेवता । मेघेषु गर्जनं विद्युत् च इन्द्रस्य कृपा एव । किन्तु हेलब्रैण्ट् इत्यस्य मतानुगुण इन्द्रः सूर्यदेवता अस्ति । वैदिकभारतीयाः इन्द्रः प्रबला भौबिकशक्तिः इति भावयन्ति यः सैनिकविजयस्य साम्रज्यवादिविचारस्य च प्रतीकः भवति । प्रकृतेः न कोपि अङ्गः तादृशः शक्तिशाली अस्ति यथा विद्युत्प्रयारः भवति । इन्द्रम् अग्निदेवस्य यमलसोदरः इत्यपि सम्बोधयन्ति येन विद्युदीयाग्निः यज्ञवेदीयाग्निः च प्रकटितः भवति । वैदिकानां मतम् अस्ति यत् वृत्रः अनावृष्टेः असुरः शुष्कमेघानां प्रतीकः च । इन्द्रः स्वायुधेन वज्रेण वृत्ररूपिणं राक्षस्यं हत्वा जलं मुक्तं करोति । तदा पृथिव्यां वर्षधाराः पतन्ति । ओल्डेनवर्ग्,हिलब्रैण्ट् च व्रत्रासुरवधस्य अन्यकथाम् अवदताम् । एतयोः मतानुगुणं पर्वतानां जलस्य मुक्तिः इन्द्रेण कृता । सूर्यरूपिणः इन्द्रस्य वर्णनं कृत्वा हिलब्रैण्ट् एवम् अवदत् वृत्रः शीतस्य हिमस्य वा प्रतीकः अस्ति यस्य मुक्तिः केवलं सूर्यः करोति । द्वावपि विचारौ इन्द्रस्य रूपद्वयं प्रकटयतः यस्य प्रदर्शनं क्षेत्रे झञ्झावातस्य पर्वते तपतः सूर