गणेशः प्रसिद्धा हिन्दुदेवता । शिवपार्वत्योः प्रथमः पुत्रः भवति। गणः नाम समूहः, गणानाम् ईशः गणेशः इति। सः विनायकः इति नाम्नि अपि प्रसिद्धः। सः गजवक्त्रः वर्तते। स एव विघ्ननाशकः। अतः एव सः कार्यारम्भे पूज्यते । सः भक्तप्रियदेवः। तस्य भक्ताः गाणपतेः इति ख्याताः। गणेशोपनिषद् गणेशपुराणं मुद्गलपुराणं च तस्य स्तुतिं कुर्वन्ति। सः न केवलं हैन्दवैः किन्तु बौद्धैः जैनैः अपि पूजितः।गणेशः पौराणिकशास्त्रानुसारेण गजशिरधारिदेवतारूपेण पूजिता अस्ति। तस्य एकः दन्तः अर्धः वर्तते। बृहदाकारोदरम् अस्य अवयवे विलक्षणतया दृश्यते। गणेशस्य चरणदेशे विविधभक्ष्याणि भवन्ति। तत्पुरतः मूषिकः स्थितः वर्तते।आध्यात्मिकशिक्षायाः प्रथमसोपानं भवति ‘श्रवणम्’, तन्नाम वेदान्ते विद्यमानानां परमसत्यानां श्रवणम् । द्वितीयसोपानं ‘मननं’ तत्सत्यस्य स्वातन्त्रप्रतिच्छाया एव। श्रवणमननमाध्यमेन सर्वज्ञताम् अर्जयितुं शक्यते। गजाननस्य बृहदाकारकं कर्णं मस्तकञ्च तदेव द्योतयति।गणेशस्य हस्तचतुष्टयं मन- बुद्धि-अहंकार-चित्तं च द्योतयति। गणेशः स्वयं सच्चिदानन्दस्वरूपः भूत्वा आत्मोपलब्धेः चत्वारि उपादानानि प्रदर्शयति।शुण्डं गजाननस्य अवयवे लाक्षणिकतया तिष्ठति। स्थूलसूक्ष्मकार्ययोः सम्पादनं गजशुण्डस्य अत्याश्चर्यगुणं भवति। यथा शुण्डेन वृक्षोत्पाटनं कर्तुं शक्यते तथैव शुण्डेन भूमौ पतितां सूचीं अपि स्वीकर्तुं शक्यते। वक्रतुण्डस्य बुद्धिमत्ता स्थूल(वस्तुनिष्ठजगत्)-सूक्ष्म(पारमार्थिकजगत्)जगतोः मध्ये सेतुबन्धं करोति। परमात्मनः प्राप्त्यर्थं तन्मार्गेण (स्थूलात् सूक्ष्मं प्रति) एव गमनीयेति जनान् सूचयति ।महत् उदरं सूचयति यत् खादितानि सर्वाणि खाद्यानि जीर्णीकर्तुं समर्थं वर्तते इति । तथैव आदर्शः पुरुषः स्वस्य जीवने घट्यमानाः