भारतवर्षे भ्रष्टाचारः असाध्यरोगवत् प्रवर्तते प्रवर्धते च। अयं न केवलं केषुचिदेव जनेषु वर्तते, अपितु वटवृक्षवत् शतमूलः सन् सार्वत्रिको रोगः प्रतिदिनं वर्धत एव। सर्वे जनाः अस्य प्रसारेण चिन्तिताः सन्ति, परन्तु कोSपि सर्वकारः अस्य समूलांमूलनाय बद्धपरिकरः।
भ्रष्टाचारो नैकविधः। अनेकेSस्य प्रकाराः। यथा-उत्कोच (bribe) प्रदानम्, खाद्यवस्तुषु अखाद्यस्य मिश्रणम् अनुचित-साधनेन धनोपार्जनम्, स्वकर्तव्यं प्रति विमुखता इत्यादयः।
भ्रष्टाचारस्य अन्यद् रूपं वर्तते। राजकीय-कार्यालयेषु यावद् उत्कोचो न दीयते, तावत् तस्य प्रार्थनापत्रं अग्रसारितं न भविष्यति। यदैव उत्कोचस्य व्यवस्था क्रियते, तदैव तत् प्रार्थनापत्रं अग्रसारितं क्रियते। एवमेव व्यापारे अपि व्यवसायिनो महार्घ-वस्तूनां मध्ये अशुद्ध-वस्तूनां मिश्रणं कुर्वन्ति। तद् यथा-तैले, घृते, खाद्यवस्तुषु, पेट्रोलदिषु मिश्रणं प्रायः सर्वत्र संलक्ष्यते।
भ्रष्टाचारस्य निरोधार्थं कठोरा दंड-व्यवस्था स्यात्। राजपुरुषाः तत्पालने सर्वात्मना प्रयत्नशीला भवेयुः। कठोरायां दंडव्यवस्थायाम् अपराधिनां मनोबलं क्षीयते, ते दण्डाद् बिभ्यति।