वेदाध्ययने उपकारकाणि षडङ्गानि शिक्षा-कल्प-निरुक्त-व्याकरण-छन्दोज्यौतिषाणि प्रथितानि । एतेषु षट्सु अङ्गेषु व्याकरणं प्रधानम् अङ्गं परिगण्यते । वेदाङ्गेषु व्याकरणम् प्रधानम् अङ्गम् अस्ति । प्रधाने च कृतो यत्नः फलवान् भवति, अतोऽध्येयं व्याकरणम् । वेद ज्ञानार्थम् अपि व्याकरणस्य अध्ययनम् आवश्यकं भवति । संस्कृतवाङ्मयपरम्परायां व्याकरणशास्त्रपरम्परापि अतीव प्राचीना वर्तते । वैदिकवाङ्मयमिव व्याकरणमपि अतीव पुरातनं विद्यते । वैदिकसाहित्ये ब्राह्मणसंहितारण्यकोपनिषत्सु अपि व्याकरणप्रतिपाद्यविषया: क्वचित् क्वचित् दृश्यन्ते । विस्तरेण व्याकरणविषया: तत्सम्बद्धविषयाश्च शिक्षाग्रन्थेषु प्रातिशाख्येषु निरुक्तेषु व्याकरणेषु च समुपबृंहिता: सन्ति । पाणिने: पूर्ववर्तिन: नैके वैयाकरणा: पाणिने: प्राक् विविधं व्याकरणं तेनु: । पाणिनि: स्वयमेव दशानां पूर्ववर्तिनां वैयाकरणानां नामानि उल्लिलेख । एते दश वैयाकरणा: आपिशलि: काश्यप: गार्ग्य: गालव: चाक्रवर्मण: भारद्वाज: शाकटायन: शाकल्य: सेनक: स्फोटायनश्च सन्ति । तदतिरिच्य पाणिनिपूर्ववर्तिनां षोडशानाम् अन्येषाम् अपि वैयाकरणानां नामानि अन्यत्र लभ्यन्ते । एते षोडश वैयाकरणा: शिव: महेश्वर: वा बृहस्पति: इन्द्र: वायु: भरद्वाज: भागुरि: पौस्करसादि: चारायण: काशकृत्स्न: सनातन: व्याघ्रपाद: माध्यन्दिनि: रौढि: शौनक: गौतम: व्याडिश्च वर्तन्ते ।