एषः आम्रवृक्षः। एषः वृक्षः उन्नतः विस्तीर्णः च अस्ति। न केवलं तस्य पक्वानि फलानि अस्मभ्यं रोचन्ते अपितु अपक्वानि अपि। वसन्ते ऋतौ अपक्वानि आम्रफलानि भवन्ति तानि एव ग्रीष्मे पक्वानि मधुराणि च जायन्ते। वसन्ते ऋतौ एतस्मिन् नूतनाः पल्ल्वाः विलसन्ति। अनन्तरं मञ्जर्यः विराजन्ते। मञ्जरीणां सुगन्धेन सर्वपरिसरः सुगंधितः भवति। तदा आम्रवृक्षस्य शोभा अवर्णनीया भवति। आम्रवृक्षस्य छाया निबिडा शीतला च भवति। आतपेन तप्ताः जनाः तस्य छायाम् आश्रयन्ते आनन्दिताः च भवति। सर्वफलेषु आम्रफलं श्रेष्ठम् इति जनाः मन्यन्ते। जनाः आम्रवृक्षं मंगलकरमपि मन्यन्ते। अतः जनाः तोरणेषु एतस्य पर्णानां उपयोगं कुर्वन्ति।