अहिंसा परमो धर्मः | Ahimsa Parmo Dharma Sanskrit Essay

प्रायः जीवानां वध: ‘हिंसा’ इति उच्यते । परं मनसा वाचा कर्मणा वा कस्यापि जीवस्य परिपीडनम् ‘हिंसा’ इति कथ्यते । एवं हिंसा त्रिविधा भवति-मानसिकी हिंसा, वाचिकी हिंसा, कायिकी हिंसा च । तत्र सर्वप्रकारक हिंसानाम् त्याग एवं अहिंसा’ भवति ।।

सर्वेषु धर्मेषु अहिसायाः प्राधान्यं वर्तते । संसारस्य सर्वाचायें: अहिंसाया गौरवं तारस्वरेण गीयते । अस्मिन् संसारे एतादृशः कोऽपि धर्म प्रवर्तको धर्म प्रचारको वा न वर्तते यः अहिंसाया: महती आवश्यकतां न स्वीकुरुते । भारतवर्षे अहिंसाया: प्रतिष्ठा अति प्राचीना अस्ति । भारतीय संस्कृतिः सर्वदेव अहिंसाप्राधानः आसीत्। अत्र अनेके महापुरुषाः अभवन् ये स्वजीवने अहिसावतं गृहीत्वा व लोक पूज्यताम् अवापुः । मनुना चातुर्वण्र्यार्थम् अहिसायाः महत्त्वं निरूप्यते: –

अहिंसा सत्यमस्तेयं शौचमिन्द्रिय निग्रह

एतं सामासिक धर्म चातुर्वण्र्येऽब्रवीन्मनुः

विश्वामित्रं प्रति वशिष्ठस्य अहिंसाश्रयणम् सर्वजन प्रसिद्धं वर्तते । तस्मात विश्वामित्रापेक्षया वशिष्ठ श्रेष्ठः अभवत् । महात्मा बुद्ध: अहिंसायाः श्रेष्ठः प्रचारक आसीत् । अतएव अद्यापि न केवलं अस्माकं देशे एवं अपितु विदेशेषु अपि अहिसायाः धारा प्रवति । कलिग संग्रामे रक्तपातं दृष्ट्वा अशोक नृपतेः हृदये। अहिंसायाः सञ्चारः अभवत् । अहिंसा बलेन एव सम्राट् अशोकः ‘महान्’ इति पदं लब्धवान् ।

जैन धर्म अपि अहिंसायाः अनिवार्यत्वम् उपदिश्यते । अहिंसा बलेनैव महात्मा गांधी ‘महात्मा’ ‘बापू’ च पदेन सम्पूर्ण संसारे प्रसिद्धम् अभवत् । स अहिंसा शस्त्रेण एव भारतीय स्वातन्त्र्य संग्राम विजया बभूव । अहिंसा शस्त्रेण भीताः गौराङ्गाः शासकाः भारतभूमि विहाय पलायिताः ।

विश्वे सर्वे प्राणिनः सुखम् वाञ्छन्ति । न कोऽपि स्व विनाशं इच्छति । यदि एवमेव पशु-पक्षिणाम् विषये अस्माकम् चिन्तनम् स्यात् तर्हि न कस्यचिद हुननम् कोऽपि करिष्यति । परस्य पौड़ा स्व पीड़ा एवं अनुभूयते धार्मिकैः उत्तम् चः –

श्रूयताम् धर्म सर्वस्वं श्रुत्वा चैवावधार्यताम् ।

आत्मनः प्रतिकूलानि परेषाम् न समाचरेत् ।।