Sanskrit Essay on Asia Continent ( जम्बूद्वीपः)

Essay on Asia Continent In Sanskrit

जम्बुद्वीपम् एक: महाद्वीपः अस्ति| जम्बुद्वीपम् विशवस्य महिसतम् महाद्वीपः अस्ति| एषः महाद्वीपम् अनेकाणि देशानि अस्ति| भारतवर्ष: एशानि महाद्वीपम् एक: राष्ट्रः अस्ति |भूम्याः सर्वे प्रधानधर्माः प्रधानमताः च जम्बुद्विपात् उद्भवन्। जम्बुद्वीपात् एव बहवः पुरातनसंस्कृतयः अवर्धन्त। ४३ राष्ट्रैः युक्तः अयं खण्डः ४४,३९१,१६३ चतुरस्रकिलोमीटर्मितेन विस्तारेण युक्तः अस्ति । अस्य खण्डस्य भूयान् भागः उत्तरगोलार्धे दृश्यते । इण्डोनेशियादेशस्य भागार्धमात्रं दक्षिणगोलार्धे दृश्यते । दक्षिणस्य १०० तः उत्तरस्य ८०० अक्षांशयोः मध्ये, पूर्वगोलार्धस्य २५० – १९०० रेखांशयोः मध्ये अयं खण्डः विद्यते ।ग्रीष्मकाले जून्-मासतः सप्टम्बर्-मासाभ्यान्तरं नैऋत्य-प्रावृष-वृष्टिः भारत-बाङ्ग्ला-मयान्मार्-श्रीलङ्का-मलेशिया-इण्डोनेशिया-इण्डिचीना-जपानदेशेषु सम्भवति । विशेषतया बाङ्ग्ला-मयान्मार्-मलेशिया-इण्डोनेशिया-फिलिप्पीन्स्-देशेषु अतिवृष्टिः भवति । अतः एव अत्र नित्यहरिद्वर्णारण्यानि विशेषतया दृश्यन्ते ।

ईशान्य-प्रावृष-वायुना जपान्-दक्षिणपूर्वचीनाभागः-मलेशिया-मयान्मार्-श्रीलङ्का-बाङ्ग्ल-देशेषु भारतस्य तमिलुनाडुप्रदेशे च वृष्टिः भवति । पश्चिमवायुना टर्कि-इस्रेल् इत्यादिषु वृष्टिः भवति । अवशिष्टेषु भागेषु वृष्टिः अल्पा । विशेषतया सौदि-अरेबिया-इरान्-पाकिस्थानस्य दक्षिणप्रदेशाः-मुङ्गोलिया-सैबीरिया इत्यादिषु वृष्टिः नास्ति इत्येव वक्तुं शक्यते । भारतस्य उत्तरभागे स्थितात् काश्मीरात् असमप्रदेशं यावत् हिमालयपर्वतश्रेण्यः सन्ति । जगति एव अत्युन्नतं गौरीशङ्करशिखरम् (एवरेस्टशिखरम् – ८८४८मीटरुन्नतम्) अत्र विद्यते । धवलगिरिः, काञ्चनगङ्गा, नन्दादेवी, के २ इत्यादयः उन्नतशिखराणि विद्यन्ते । भारते १४% भागः अरण्यप्

Read Also:
Essay on Sanskrit Literature
Sanskrit Esssay on Neem Plant
Sanskrit Essay on Vedant
Sanskrit Essay on Bird
Sanskrit Essay On Ganga Nadi

Leave a Comment