Sanskrit Essay on Cow ( गौः )

Essay On Cow in Sanskrit

भारतीयानां श्रद्धाबिन्दुषु गौ: एकं महत्त्वपूर्णं स्थानम् अलङ्करोति । भारतीया: गा: मातृत्वेन पश्यन्ति, पालयन्ति च । न केवलं दुग्धदातृत्वेन गवां मातृत्वम् । बहुविधदिव्यगुणानां निलय: भवति गौ: । गवि गव्ये च दिव्यत्वम् अस्ति । तादृशगाव: दुग्धदानयन्त्राणि नैव । ता: राष्ट्रसौभाग्यदायिन्य: । परोपकारगुणेन गोतुल्यजन्तु: नान्य: अस्ति भूतले ।वीथीषु अटन्ती लब्धेन तृणेन, पर्णेन अवकरेण वा, मानवेन अनावश्यकम् इति त्यक्तेन पदार्थेन वा स्वोदरं प्रपूर्य परेद्यवि अमृतसदृशं क्षीरं ददाति गौ: । गोक्षीरं, तदुत्पन्नानि, गोमूत्रं, गोमयम् – एवं गव्यं सर्वमपि समाजपोषकं भवति । ‘गो – उत्पन्नानि’ सम्पद्वृद्धिकराणि ।

उक्तं च – ‘‘धेनु: सदनं रयीणम् ।’’ (गो: सम्पदां निलय:) इति । प्राचीनकाले समाजस्य सुखसम्पद: स्तरं गणयितुं तत्रत्या: गाव: प्रमाणम् आसन् । धार्मिककार्यक्रमेषु अन्नदानसन्दर्भे सर्वप्रथमं गवे भोजनं दत्त्वा – ‘‘गावो मे मातर: सन्तु पितर: सन्तु गोवृषा: ।गोषु भारतीयगवां स्वभावे किञ्चिद् वैशिष्ट्यमस्ति । भारतीयगाव: सामान्यवातावरणवैपरीत्यं सोढुं शक्नुवन्ति । आतपे वृष्टौ अटित्वापि ता: आरोग्यवत्य: एव भवन्ति । विदेशीयगवां (जर्सीत्यादिसन्ततीनां) रोगनिरोधकशक्ति: न्यूना ।

Read Also:
Sanskrit Essay on Elephant
Sanskrit Essay on Ramayana
Sanskrit Essay on Patanjali
Sanskrit Essay on Lion
Sanskrit Esssay on Neem Plant

Share

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!