Sanskrit Essay on Earth ( पृथ्वी )

Essay on Earth in Sanskrit

पृथ्वी कश्चित् ग्रहः अस्ति । सूर्यमण्डले पृथ्वी तृतीये क्रमाङ्के स्थिता अस्ति । पृथ्वीग्रहः सौरमण्डलस्य पञ्चमबृहत्तमः ग्रहः अस्ति । जीवनाय अनुकूलाः परिस्थितयः पृथ्व्याम् एव सन्ति । पृथ्वी अधिकोष्णा नास्ति, अधिकशीतलापि नास्ति । पृथ्व्यां वायुः, जलम् च अस्ति । जीवनस्य कृते वायुजलयोः आवश्यकता भवति । अत्र प्राणवायुः अपि अस्ति, येन श्वसनतन्त्रं चलति । अनेन कारणेन पृथ्वी सौरमण्डलस्य अद्भुतग्रहः विद्यते । पृथिव्याः प्रकृतिः विशिष्टा वर्तते । तस्य विषये इदानीम् अपि स्पष्टं नास्ति । पृथिव्याम् अनेकाः पदार्थाः सन्ति । पृथिव्याः उपरिभागः स्थलमण्डलेन आवृतः अस्ति । ज्वालामुखिना पृथिव्याः बहवः पदार्थाः बहिरागच्छन्ति । ज्वालामुखिनः अत्युष्णः द्रवपदार्थः, मृत्तिका, धूम्रः, अग्निः, मैग्मा च बहिरागच्छति । तेन एव वैज्ञानिकाः अनुमानं चिन्तयन्ति ।

वैज्ञानिकाः भौगोलिके संशोधने कार्यरताः भवन्ति । तेन वैज्ञानिकानां समीपं पृथिव्याः विषये विशिष्टं ज्ञानं भवति । अतः ते पृथिव्याः, ब्रह्माण्डस्य च संरचनायाः विषये सूक्ष्मतया जानन्ति ।भूगर्भस्य संरचना कथम् अस्ति ? तस्मिन् के पदार्थाः प्राप्यन्ते ? इति विषयम् आधृत्य वैज्ञानिकाः निरन्तरम् संशोधनं कुर्वन्तः सन्ति । पृथिव्याः केन्द्रे गन्तुं अशक्यम् अस्ति, किन्तु केवलम् अनुमानेन वैज्ञानिकाः ज्ञानं प्राप्नुवन्ति । प्रेक्षणैः अपि ते संशोधने नूतनान् विषयान् अवगच्छन्ति । भूगर्भस्य ज्ञानार्थं प्रत्यक्षाप्रत्यक्षौ स्रोतसी स्तः । ग्रहेषु पृथिव्याम् एव जीवनं सम्भवम् अस्ति । यतः जीवनाय भूमेः, जलस्य, वायोः च आवश्यकता वर्तते । तानि सर्वाणि तत्त्वानि पृथिव्याम् उपलब्धानि सन्ति । पृथिव्याः पर्यावरणस्य त्रयः महत्वपूर्णाः घटकाः परस्परं मिलन्ति, परस्परं प्रभावयन्ति च । पृथिव्

Read Also:
Sanskrit Essay on Banabhatta
Sanskrit Essay On Anushaasn
Essay on Sanskrit Literature
Sanskrit Essay on Aryabhat
Sanskrit Essay on India

Leave a Comment