पर्यावरणम् | Environment Essay in Sanskrit

पर्यावरणम् | Environment Essay in Sanskrit

“स्वल्यं तथायुर्बहुवश्च विनाः”

कलियुगे मानवाः दीर्घजीविनो न भवन्ति । केचित् व्याधिपीडिताः, केचित् क्षुधा ताडिताः, केचित् दरिद्रता दूषिताः, केचित् पर्यावरण-भक्षिताः जनाः अल्पायुषाः भवन्ति प्रतिदिनम् यमलोकम् प्रयान्ति च । तेषु अन्येषु च कारणेषु प्रदूषितम पर्यावरणम् अत्यधिकम् जीवन घातकम् वर्तते । अनेन मानव-शरीरे शनैः-शनैः विषारोपणम् क्रियते । अन्ते च अंगहीनो भूत्वा, अन्धो भूत्वा हृद्-रोगी भूत्वा च मृत्योः शरणम् गच्छति । ।

प्रकृति; अस्माकम् संरक्षिका अस्ति । अभ्रंकषाः पर्वताः, मर्यादिताः गम्भीराः सागराः, सघनानि वनानि, सोत्पलानि सरांसि, नर्तनपरा: नराः, अस्माकम् जविन-वृक्षम् सम्वर्धयन्ति । हर्षिताः तरः प्रसन्ना लतः वायोः विकारान् स्वयम् पिबन्ति अस्मभ्यम् स्वास्थ्य प्रदम् वायुमण्डलम् प्रयच्छन्ति । वृक्षाः नाना प्रकाराणि फलानि, पुष्पाणि च दत्त्वा अस्मान् बहु उपकुर्वन्ति । वातावरणस्य वायोश्च परिशोधनम् कुर्वन्ति । वनानि एवं पर्यावरणस्य सन्तुलनम् स्थापयन्ति ।।

साम्प्रतम् वयम् प्रकृतेः दूरातूदूरतः जातः । को कथा वनानाम्, इदानीम्। तु पत्राणि, पुष्पाणि, फलानि अपि न दृश्यन्ते । वनानि छिन्द्यन्ते, फलाच्छादितानि उद्यानानि उच्छिद्य नवानि भवनानि, नगराणि, फैक्ट्री इति नामधेयानि यन्त्रागाराणि निर्मीयन्ते । नगराणि महानगराणि जातानि । कृषियोग्यानि क्षेत्राणि विनष्टीकृत्य हट्टानि विनिर्मीयन्ते ।।

भौतिकवादी युगे इदानीम् ‘डीजल’ पैट्रोल इत्यादि नामकैः तैलैः चालितानि यानानि, राजमार्गान् धूम्रमयान् कुर्वन् इतस्तत: धावन्ति गगने । वायुयानानि उड्डीयन्ते तेषु निर्गता घुमशिखाऽपि घातका एव । विभिन्नेषु उद्योग-संस्थानेषु यन्त्राणि अहर्निशं धूमायन्ति वायुमण्डलम् । अधुना तु स्वास्थ्य हानिकर वायु प्रदूषणम् प्रतिक्षणम् वर्धते एव ।।

पर्वतानाम् शिलाखण्डानि विदार्य वनानि विच्छिद्य राजमार्गाणि विनिमयन्ते । तेषु गिरि मागेषु दीघनि यानानि धावन्ति । नाना प्रकाराणाम् अखाणाम् परीक्षणैः समुद्रस्य वातावरणम् अपि प्रदूष्यते । पर्वतानाम् वनसंरक्षणे चिपको आन्दोलनस्य जनकः श्री सुन्दरलाल बहुगुणा महोदयः भूरि-भूरि प्रशंसनीयः येन स्वकीये आन्दोलने समागतानि कष्टानि अविगणय्य पर्वतीयानि वनानि, वृक्षाणि च संरक्षितानि ।।

यथा प्रदूषण-विस्तारकाणि यन्त्राणि यानानि च परिवर्धन्ते तथा प्रदूषण-परिशोधन साधनानि न वर्धन्ते । धन-लाभाय वनानि छिन्यन्ते । मनोरंजनाय

Also Read:
Essay on Durga Puja
Essay on Environment
Essay on Ganga River
Essay on Himalaya Mountain
Essay on Ideal Citizen
Essay on Mahabharata

2 thoughts on “पर्यावरणम् | Environment Essay in Sanskrit”

Leave a Comment

error: Content is protected !!