Essay On Mahabharata in Sanskrit

महाभारतम् महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्धं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्म-अर्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारतस्य भीष्मपर्वणि श्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव। प्रथमं महाभारतम् इतिहासः पुराणम् आख्यानकञ्चेति नामभिः आख्यायते स्म । साम्प्रतिकास्तु महाभारतम् आचारशास्त्रम् नीतिशास्त्रम् धर्मार्थकाममोक्षाख्यचतुर्वर्गसाधनम् चामनन्ति । भारतं पञ्चमो वेदः इति सर्वत्र प्रचारितम् । सर्वत्रास्मिन् ग्रन्थे वैष्ण्वसिद्धान्तानां प्रमुखत्वेन प्रतिपादनात् महाभारतं वैष्णवस्मृतिरप्याख्यायते । महाभारतस्य अशीतिप्रतिशतभागोऽनेकविधोपदेशमयः, विंशतिप्रतिशतभाग एवेतिहासप्रतिपादक इति अस्य नीतिशास्त्रेषु गणनोचिता |
महाभारतस्य संक्षेपेण वर्णिता कथा एवं वर्तते – उत्तरभारतस्य राज्ञो दुष्यन्तस्य पुत्रस्य भरतस्य वंशधरस्य शान्तनोः प्रपौत्रो -धृतराष्टपाण्डवौ आस्ताम्। अग्रजन्मा धृतराष्टः नेत्रहीनः इति हेतोः सर्वैः पाण्डुरेव राजसिंहासनेऽभिषिक्तः। कालान्तरेण पाण्डुः पञ्चत्वं प्राप्तः। तदा पञ्चपाण्डवाः – युधिष्ठिरः – भीमः – अर्जुनः – नकुलः – सहदेवश्च निखिलानि शास्त्राणि वेदाञ्च अधीतवमन्तः । प्रकृतयः युधिष्ठिस्य शौचेन, भीमसेनस्य धृत्या, अर्जुनस्य विक्रमेण, नकुलसहदेवयोः गुरुशुश्रूषया, शान्त्या विनयेन च, समेषां तेषां शौर्यगुणेन च अति सन्तुष |

Also Read:
Essay on Himalaya Mountain
Essay on Ideal Citizen
Essay on Indian Heritage
Essay on Janmbhumi
Essay on Kalidas
Essay on Kalidas

Leave a Comment

error: Content is protected !!