Sanskrit essay on Maharashtra | महाराष्ट्रराज्यम् (My State)

महाराष्ट्रराज्यम् भारतस्यय पश्चिनमदिशि विद्यमानं किञ्चन राज्यम् अस्ति|, मुम्बई इति महाराष्ट्रराज्यस्य राजधानी । अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः । भारतस्य विस्तारे ९.८४% विस्तारः महाराष्ट्रराज्यस्य अस्ति । राज्यस्य पश्चिमदिशि अरबी समुद्रः वर्तते । मुम्बई महाराष्ट्रराज्यस्यस्य राजधानी, नागपुरनगरं महाराष्ट्रराज्यस्य उपराजधानी । महाराष्ट्र-राज्यं भारतस्य पश्चिमदिशि स्थितम् अस्ति । इदं राज्यं ३,०७,७१३ चतुरस्रकिलोमीटरमितं विस्तृतम् अस्ति । क्षेत्रफल-दृष्ट्या भारतस्य बृहत्तमेषु राज्येषु तृतीयम् अस्ति । जनसङ्ख्यादृष्ट्या च भारतस्य बृहत्तमेषु राज्येषु द्वितीयम् अस्ति । भारतस्य पश्चिमतटे स्थितः अरब-सागरः महाराष्ट्रराज्यस्य आधारभूतः अस्ति ।

अस्य राज्यस्य तटवर्तिक्षेत्रं ५६० किलोमीटरमितं दीर्घं, ८० किलोमीटरमितं विस्तृतं च अस्ति । तटीयमार्गस्य नाम “कोङ्कण” इति । इदं राज्यम् अरबसागर-सह्याद्रिपर्वतशृङ्खलयोः मध्ये विराजते । गोदावरी-नदी, भीमा-नदी, तापी-नदी, वैनगङ्गा, पेनगङ्गा, गिरना इत्यादयः महारष्ट्रराज्यस्य प्रमुखाः नद्यः सन्ति । नाशिक-नगरस्य समीपं त्र्यम्बकेश्वर-पर्वतः गोदवरी-नद्याः उद्गमस्थलं वर्तते । गोदावरी-नदी भारतस्य दीर्घतमासु नदीषु द्वितीया अस्ति । एवं च दक्षिणभारतस्य दीर्घतमा नदी अस्ति । भीमा-नदी कृष्णा-नद्याः प्रमुखसहायकनदीत्वेन अस्ति । भीमशङ्कर-स्थलम् भीमा-नद्याः उद्गमस्थलम् अस्ति । कृष्णा-नद्याः उद्गमः महाबलेश्वर-पर्वतस्य उपह्वरात् भवति । पूर्णा-नदी, पञ्चगङ्गा-नदी, दुधाना-नदी च कृष्णा-नद्याः सहायकनद्यः सन्ति । महाराष्ट्रराज्यस्य जनसङ्ख्या(२०११) ११२,३७४,३३३ कोटी अस्ति । भारतीयस्वातंत्र्यसङ्ग्रामे महाराष्ट्रराज्यस्य मुम्बईनगरस्य च योगदानम् अपू

Other Posts:
Slokas On India
Lakshmi Mantra
Essay on Patanjali
Essay on Pustakalay
Popular Slokas

Leave a Comment