स्वातन्त्र्योद्घोषकम् अस्माकम् नगरम् | My City Essay in Sanskrit

Jump to Section

स्वातन्त्र्योद्घोषकम् अस्माकम् नगरम् | My City Essay in Sanskrit

अस्माकम् नगरस्य नाम मयराष्ट्रः (मेरठ) अस्ति । दिल्ली नाम्नः भारत वर्षस्य राजपीठस्य नातिरे, उत्तर प्रदेशस्य पश्चिम तटे स्थितम् इदम् नगरम् परमां शोभाम् आसीदते । मेरठ मण्डलस्य इदम् नगरम् मुख्यालयम् वर्तत । अत्रैव

आयुक्तादयः मण्डलीय प्रधान शासकोः निवसन्त । इदम् पत्तनम् एकम् प्रसिद्धम् शिक्षा केन्द्रम्, प्रथितम् व्यापारिक केन्द्रञ्च अस्ति ।।

अत्रैव भगवतः शंकरस्य प्राचीनतमम् सिद्धपीठम् ‘औघड़नाथ मन्दिरम्’ अस्ति । शिवालयमिदम् “काली पल्टन का मन्दिर” इत्यपि कथ्यते जनैः । अस्मात् पावनात् स्थानादव स्वतन्त्रताया: प्रथम उद्घोषः भारताका गुञ्जयमान भूत् जनै; । स्वतन्त्रता संग्रामस्य शुभारम्भमिमं ‘सैनिक विद्रोहः’ इत्यपि कथ्यते इतिहास विशेषज्ञैः । अतः अस्य नगरस्य राजनैतिकम् महन्महत्त्वं अस्ति । इयम् नगरी रावणस्य भार्यायाः मन्दोदर्याः जन्म-स्थली अस्ति, अत्रैव देशमुखस्य श्वसुरगम् आसीत्।

अत्रैव आगत्य श्रवण कुमार: मातृ-पितृभक्ति-विहीनो जातः । अन्य नगरस्य भूमिप्रभावात् तस्य बुद्धि विपर्ययोऽभवत् इत्येषा जनश्रुतिः । स्वार्थ लिप्ता मनोवृत्तिः अस्य नगरस्य नागरिकाणाम् इत्यपि अनुभूयते पर नगर निवासिभिः ।।

अस्मिन् नगरे सुविख्यातः मेरठ विश्व विद्यालयः अपि विराजते । विश्व विद्यालयात् सम्बद्धाः अनेकाः महाविद्यालयाः सन्ति । तेषु सहस्रशः छात्राः विविधान् विषयान् पठन्त्रि पदवी च लभन्ते । अत्रत्यः लाला लाजपतराय स्मारक चिकित्सा महाविद्यालयः बहुप्रसिद्धः अस्ति। शिक्षा-क्षेत्र इदम् नगरम् अत्यधिकम् समुन्नतम्। वर्तते ।।

इदम् नगरम् एकम् प्रथितम् व्यापारिक केन्द्रम् अपि अस्ति। वयस्य निर्माण अन्नत्यं हस्त-कला-कौशलम तु भारत प्रसिद्धम्। ‘कॅची’ निर्माण उद्योगे वैशिष्ट्यम् अपि अस्य नगरस्य ख्यातिम् वर्धते एव । पुस्तक प्रकाशन व्यवसाये तु नास्ति अस्य समता उत्तर भारते ।।

चैत्र मासे नवरात्र्याम् प्रतिवर्ष उत्तर भारते प्रख्यातः साम्प्रदायिक सौहार्द सूचक, विभिन्न आँचलकानाम् व्यापारिणम् कृते समृद्धि वर्धकः ‘नौचन्दी’ इति नाम्ना प्रसिद्धः मेलापकः अपि अत्र भवति । हिन्दू-मुस्लिम एकतायाः प्रतीक अस्मिन् मेलापके एकतः वाले मियाँ महोदयस्य समाधिस्थलम् (मजार इति करो उर्दू भाषायाम्) अपरतः महामायायाः नवचण्डिकायाः देवालयम् वर्तते । जन: समाधिस्थलस्य उपरि विस्तीर्णानि वस्त्रावरणानि अर्पयन्ति, देवालये च जगदम्बिकाम् धूप-दीपादिभिः अर्चयन्ति ।

Also Read:
Essay on Vasant Ritu
Essay on Vasant Ritu
Essay on Vedvyas
Essay on Greediness
Essay on Ahimsa
Essay on Anushaasan

Share this post

Share on facebook
Share on google
Share on twitter
Share on linkedin

Related Posts

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top