Sanskrit Essay on Water ( जलम् )

Essay on Water in Sanskrit

जलम् एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते । तृष्णायां सत्यां जलेन एव निवारणं भवति । पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम् । अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते । जलं सौरमण्डले दुर्लभं वर्तते । अन्यत्र कुत्रापि जलं नास्ति । पृथिव्यां जलं पर्याप्तम् अस्ति । अतः पृथिवी नीलग्रहः इति उच्यते । जलं निरन्तरं स्वरूपं परिवर्तते । सूर्यस्य तापेन वाष्पस्वरूपं, शीतले सति सङ्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति । जलं महासागरेषु, वायुमण्डले, पृथिव्यां च परिभ्रमति । जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते । अस्माकं पृथिवी स्थलशाला इव अस्ति । अलवणस्य जलस्य मुख्यं स्रोतः नदी, तडागः, हिमनदी च वर्तते ।

महासागराणां, समुद्राणां च जलं लावण्यं वर्तते । तस्मिन् जले सोडियम् क्लोराइड्, पाचकलवणं च प्राप्यते । जलम् एकं चक्रीयसंसाधनं वर्तते । पौनःपुन्येन जलस्य उपयोगः क्रियते । अस्मिन् जलचक्रे जलं महासागरतः धरातलं, धरातलतः महासागरं प्राप्नोति । इदं चक्रं सततं कार्यरतम् अस्ति । पृथिव्यां जीवनाय आवश्यकतत्त्वं वर्तते । जलस्य वितरणं पृथिव्याम् असमानम् अस्ति । केषुचित् क्षेत्रेषु जलम् अधिकमात्रायां प्राप्यते ।

Read Also:
Sanskrit Essay on Buddhism
Sanskrit Essay on Cow
Sanskrit Essay On Mahatma Gandhi
Sanskrit Esssay on Neem Plant
Environment Essay in Sanskrit

Leave a Comment