women education in sanskrit

स्त्री शिक्षायाः आवश्यकता | Women Education Essay in Sanskrit

स्त्री शिक्षायाः आवश्यकता | Women Education Essay in Sanskrit

गृहस्थ रथस्य नर-नारी रूपं चक्रद्वयम् । रथस्य संचालने द्वयोरपि समान; सहयोगः वर्तते । एकस्य अपि अभावेन रथः चलितुं न शक्नोति । गृहस्थ रथस्य द्वयोः चक्रयोः कृते शिक्षारूप तैलस्य परमावश्यकता भवति ।।

यस्मिन् कुटुम्बे नार्यः शिक्षिताः न भवन्ति, तस्मिन् कुटम्बे प्रतिदिनम् एव कलहादि भवति । येन तस्य कुटुम्बस्य उन्नतिः कथमपि भवितुं न शक्याः ।। सुशिक्षिता स्त्री सद्गृहिणी सत्कर्म परायणा च भवितुमर्हति । ।

स्त्री एवं मातृपद गौरवं प्राप्नोति । शिशः पालन, शिक्षादानञ्च मातृकर्तव्ये भवतः । यदि माता स्वयं न शिक्षिता स्यात् तदा सा स्वशिशवे शिक्षादानं कध करिष्यति । तस्मात् स्त्रीणां कृते शिक्षायाः परमावश्यकता वर्तते । शिक्षा अज्ञानरूपं अंधकारं नश्यति । अतएव उक्तं ।

कन्या ऽप्येवं लालनीया शिक्षणीया प्रयत्नतः”

प्राचीन समये भारतवर्षे स्त्रीशिक्षायाः महान प्रचारः आसीत् । उषा, गार्गी, मैत्रेयी प्रभृतीनां नारीणां चरित्राणि तासाम् उच्चशिक्षां कथयन्ति । स्वतन्त्र भारते नारी शिक्षायाः महती समुन्नतिः दृश्यते । पश्यन्तु भवन्तः ? हिन्दी साहित्य क्षेत्रे ज्ञानपीठ पुरस्कारेण सम्मानित महादेवी वर्मा को न जानाति । महादेवी वर्मा स्वज्ञान गरिम्णा सम्पूर्ण स्त्रीजाति गौरवान्वितं अकरोत् ।।

अतः देशस्य समाजस्य च समुन्नत्यै स्त्रीशिक्षा परमावश्यकी वर्तते । स्त्रियः मातृशक्तेः प्रतीक भूताः भवन्ति अतः तासाम् सदा सम्मान; कर्तव्यः । यस्मिन समाजे समाजे स्त्रीणाम् आदरो भवति सः समाजः उन्नतिम् प्राप्नोति । मन्ना उक्तम् –

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।।

यत्रैतास्तु न पूज्यन्ते सर्वाः तत्राफलाः क्रियाः ।।

Also Read:
Essay on Satsangati
Essay on Satyamev Jayate
Essay on Shram(Labour)
Essay on Terrorism
Essay on Time
Essay on Udyog
Essay on Unity

Share

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!