यमुनानदी (Yamuna )

यमुना दक्षिणेशियामहाद्वीपे भारतदेशे एका नदी अस्‍ति। भानुजा, कालिन्दी, सूर्यपुत्री इति ज्ञाता हिमालये कलिन्दपर्वतात् उत्पद्यते।सा एका पवित्रा नदी। यमुनानद्याः उगमस्थानम् उत्तराखण्डराज्यस्य उत्तरकाशीमण्डलस्य यमुनोत्री इत्यत्र उद्भवति । ततः १३७० कि.मी दूरं यावत् प्रवह्य उत्तरप्रदेशस्य इलहाबाद् प्रयागः इत्यत्र गङ्गानद्या मिलति । एषा नदी उत्तराखण्ड-हरियाणा-देहली-उत्तरप्रदेशराज्यानां मार्गेण प्रवहति । देहली मथुरा आग्रा इत्यादिप्रमुखनगराणि अस्याः तीरे सन्ति । यद्यपि एषा गङ्गानद्याः उपनदी इति कथ्यते ,तथापि एतस्याह् अपि अनेकाः उपनद्यः सन्ति । तासु प्रमुखाः चम्बल्, बेत्वा, तोन्स्, केन् च । एतासु तोन्स्नदी दीर्घा अस्ति । सा सूर्यपुत्री यमस्य स्वसा च। यमुना कूर्मवाहिनी अस्ति। पूर्वं कदाचित् यमुनानदी घग्गरनद्याः उपनदी आसीत् इति उल्लीखाः प्राप्ताः सन्ति । अग्रे कदाचित् उत्तरभारते जातानां भूस्तराणाम् चलनकारणतः एषा स्वस्य पात्रं परिवर्त्य गङ्गया मिलति । पुराणाम् आधारेण सा सूर्यस्य पुत्री यमस्य स्वसा च। विवस्वतः(सूर्यस्य) सञ्जनायाः च पुत्री । यमुनानद्या निर्मिते कल्किद्वीपे एव महाभारतस्य वेदव्यासस्य जन्म अभवत् । यमुनानद्याः अञ्जलिमात्रेन जलेन सोमयागः सम्पन्नः इति कथा श्रूयते । मथुरा-वृन्दावनयोः वहन्ती यमुना श्रीकृष्णस्य लीलानां साक्षीभूता तिष्ठति । यमुनां जमुना इत्यपि आह्वयन्ति । प्रसिद्धः इतिहासकारः टालेमी एतां द् यामौन् इति आहूतवान् अस्ति । लीनी जोमान्स् इति, अरियन् जोबेर्स् इति च आहूतवन्तौ स्तः । देवप्रयागतः गङ्गायमुनयोः सङ्गमस्थानं प्रायागं यावत् विद्यमानः भूभागः अन्तर्वेदी, शासस्स्थली, ब्रह्मावर्तः इत्यादिभिः नामभिः प्रसिद्धः दृश्यते ।

 

Read Also:

Leave a Comment