गौः | Cow Essay in Sanskrit
गौः अस्माकं देशस्य सर्वश्रेष्ठः पशुः अस्ति : गो- मनुष्याणां महान्तम् उपकारं करोति । इयं देवरूपा मातृतुल्या कल्याणकारिणी च अस्ति । गौः भारतस्य सर्वेषु प्रान्तेषु प्राप्यते। अस्याः द्वे श्रृंगे, पृष्ठे लम्बमानं पुच्छ, द्विविभक्ताः चत्वारः। रवुराः भवन्ति ।अस्याः शीवायाः अधोभागे गलकम्बलं भवति । गावः विविधवण: भवन्ति।
गौः स्वयं घासं बुसं च खादति पर मानवेभ्यः अमृतोपमं सुमधुरं दुग्ध यच्छति । सवें मनुष्याः गवां दुग्धं पिबन्ति । गोदुग्धम् अतीव पवित्रं भवति । गवां दुग्धं सुपाच्यं हितकर स्वास्थ्यकरं च भवति । अस्याः दुग्धेन नवनीतं, तर्क, घृतं, दधि तथा अनेक विधानि मिष्ठान्नानि रपयामः । न केवलं दुग्धम् एव अपितु अस्याः मूत्रं मलश्चापि अति हितकरौ । वैद्यैः गौमुत्रम् औषधि रूपेण प्रयुज्यते । गोमूत्रेण उदर रोगा; नश्यन्ति । तस्य गोमयेन मानवाः गृहाणि उपलिप्यन्ते । गोमये। भूमेः उर्वरा शक्ति वर्धते, इन्धनकाय च विधीयते | मृतायां गो धणि उपमहादिकम् निर्मीयते । अस्याः अस्थिभ्यः खादं विधीयते ।।
गौः सुताः एव वृषभाः भवन्ति । वृषभा एवं कृषि कर्मणि कृषकानां सहायता कुर्वन्ति। ते क्षेत्रे हलान् कर्षन्ति, भारं वहन्ति, रथान् चालयन्ति । वृषभाः अपि हिन्दुभिः पूज्यन्ते, यत् एष शिवस्य वाहनम् अस्ति । एवं गौः अस्माकं अति उपकारं करोति । यथा माता स्वसुतं पालयति रक्षति च तथैव गौ अस्मान् पालयति रक्षति च। सा मातेव पूजनीया भवति । उक्तं च
मातरः सर्वभूतानां गावः, सर्वसुख प्रदाः ।। प्राचीन कालदेव भारतवर्षे गवां विशिष्टं महत्वम् अस्ति । दिलीपः गोसेवां कृत्वा पुत्रं लब्धवान् । श्रीकृष्णः स्वयं गाः अचारयत् । गो: चारणेन कृष्णः ‘गोपाल: कथ्यते । यद्यपि भारत विधाने गोहत्या निषद्धाः तथापि अद्यापि अस्माकं देशे गोहत्या भवति । गवां पालने पोषणे च वयं उचितं ध्यानं न यच्छामः इति खेदस्य विषयः । मदीया अभिलाषा अस्ति, यत्
गावो मे अग्रतः सन्तु, गावो मे सन्तु पृष्ठतः ।। गावो मे सर्वतः सन्तु गवां मध्ये वसाम्यहम् ॥ |