अस्माकं भारतवर्षे प्रतिवर्षं बहूनि पर्वाणि मान्यन्ते। तेषु पर्वेषु दीपावालिः हिन्दुनां पवित्रं पर्वमस्ति। इदं कथ्यते यत् अस्मिन् एव दिने श्रीरामः रावणादि राक्षसान् निहत्य सीतया लक्ष्मणेन च सह चतुर्दशवर्षाणां वनवासं समाप्य अयोध्यां प्रत्यागच्छन्। तदा अयोध्यावासिनः प्रसन्नो भूत्वा स्वगृहेषु राजमार्गेषु च दीपकान् प्रज्वालयन्। जानश्रुत्यानुसारेण अस्मिन् एव दिने समुद्रमंथने लक्ष्मी प्रकटिता अभवत्।
दीपावलिः प्रतिवर्षे कार्तिकमासस्य अमावस्यायां तिथौ मान्यते। जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति। जनाः मालाभिः, विद्युत्दीपैः, मृतिकादीपैः च गृहाणि, मन्दिराणि राजमार्गणि, आपणानि च अलंकृतानि कुर्वन्ति। जनाः रात्रौ लक्ष्मी-गणेशस्य च पूजनं कुर्वन्ति। मिष्ठान्नानि च खादन्ति। बालकाः स्फोटकानि स्फोटयन्ति प्रसन्नाः च भवन्ति। दीपावलिः पावनतायाः, उल्लासस्य च प्रतीकमस्ति यथा दीपकः अंधकारं नाशयति तथैव वयमपि अज्ञानस्य, भेदभावस्य, घृणायाः च अन्धकारं नाश्याम। अयं अस्य पर्वस्य संदेशः अस्ति।