पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् । बौद्धधर्मस्य उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, भाषाः, पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन ।हिन्दुधर्मस्य, बौद्धधर्मस्य, जैनधर्मस्य, सिख्-धर्मस्य जन्मभूमिः भारतम् । समग्रे विश्वे एव अब्रहां धर्माणाम् अनन्तरस्य स्थानम् अस्ति भारतीयधर्माणाम् । तत्रापि हिन्दुधर्मः जगति एव तृतीयः महाधर्मः । चतुर्थे स्थाने अस्ति बौद्धधर्मः । एतयोः द्वयोः धर्मयोः अनुयायिनः १.४ शतकोट्यपेक्षया अधिकाः सन्ति । भारतं विश्वे एव महान् धार्मिकवैविद्यतायाः देशः । अत्रत्यानां जनानां जीवने अद्यापि धर्मः निर्णायकं पात्रं निर्वहति । भारतस्य पमुखः धर्मः हिन्दुधर्मः । यतः अत्रत्यायाः जनसंख्यायाः ८०.४ % अपेक्षया अपि अधिकाः हिन्दुधर्मम् अनुसरन्ति । १३.४% जनाः इस्लां धर्मम् अनुसरन्ति । सिख्-जैन-बौद्धधर्माणां जनाः न केवलं भारते अपि तु विश्वस्य सर्वेषु भागेषु व्याप्ताः सन्ति । विश्वस्य अन्येषां मतानां क्रैस्त-झोराश्ट्रियन्-यहूद्य-बहायि-मतानाम् अनुयायिनः अप