भारतस्य राष्ट्रखगः मयूरः अस्ति। मयूरः सर्वखगेषु सुन्दरः अस्ति। एतस्य केका प्रसिद्धा। आकाशे मेघाः गर्जन्ति। तदा एषः मयूरः आनंदति नृत्यति च। तस्य नृत्यं अतीव नयनमनोहरम्। नर्तनसमये कलापः विस्तृतः भवति। एतस्य पिच्छस्य विविधाः वर्णाः। एतस्य पिच्छे नीलवर्णस्य आधिक्यं भवति। हरितः, पीतः, नीलः अपि वर्णाः मयूरस्य पिच्छे सन्ति। एते वर्णाः आकर्षकाः। अतः मयूरः सर्वेषां चित्तानि आकर्षति।
एतस्य चञ्चूः किञ्चित् दीर्धा। मस्तके शिखा भवति। नृपस्य मस्तके मुकुटं भवति, तथा मयूरस्य मस्तके शिखा विराजते। अतः शिखी इति अपि जनाः तं वदन्ति। एतस्य सम्पूर्णं शरीरं सुन्दरं परन्तु चरणौ असुन्दरौ। नृत्यसमये एतस्य चरणौ अपि सुन्दरौ भवतः। एतस्य कण्ठः नीलः। अतः नीलकंठः इति एनम् अपि, सर्वे वदन्ति।
मयूरः वने वसति। वृक्षेषु आरोहति। सः भूमौ चलति, धावति आकाशे उड्डयते च। सः सर्पान् अपि भक्षयति। सः मानवान् सर्पेभ्यः रक्षति।
शंकरस्य वाहनं वृषभः। विष्णोः वाहनं गरुड़ः। गणेशस्य वाहनं मूषकः तथा सरस्वत्याः वाहनं मयूरः।