सङ्गणकं किञ्चिद् अभिकलकयन्त्रं भवति। सङ्गणकं गणिताशास्त्रस्य तर्कशास्त्रस्य च सङ्क्रियाः स्वचालितविधिना कर्तुं शक्नोति। सङ्गणकं केवलम् ‘आम्’, ‘न’ इत्येते ज्ञातुं शक्नोति। तस्य भाषायाम् ‘०’ अङ्कस्य अर्थः ‘न’ अस्ति, ‘१’ अङ्कस्य अर्थः ‘आम्’ अस्ति च। आं न इति सङ्केताभ्यां सङ्गणकं कार्याणि करोति। तस्य द्वौ भागौ स्तः- तन्त्रांशः, यन्त्रांशः च। तन्त्रांशः एव यन्त्रांशं कार्य कर्तुम् आदेशं यच्छति। आधुनिके युगे सङ्गणकानि विना जीवनं न सम्भवति। गणकयन्त्रं तु एकम् विद्युन्मानयन्त्रं वर्तते । एकविंशतितमं शतकं गणकयन्त्रयुगनाम्ना निर्दिश्यते । अद्यत्वे गणकयन्त्रेण विना जगति किमपि न प्रचलति जगच्च न अग्रे सरति। यथा धूमशकटयानस्य, लोकयानस्य च चीटिकादानादारभ्य वित्तकोशीयव्यवहारपत्राणां सज्जतापर्यन्तं सर्वाणि कार्याणि गणकयन्त्रसाहाय्येन एव प्रचलन्ति । पुरातनकाले मानवः अश्मायुधेन मृगयया च स्वकीयम् आहारं सम्पादयति स्म । अतः तद्युगं शिलायुगम् इति कथ्यते स्म । तदनन्तरं कालक्रमेण अश्मायुधं परित्यज्य शराग्रे तीक्ष्णलोहभागं विधाय, परशोः साहाय्येन वा आहारं प्राप्य उदरम्भरणं करोति स्म । तद्युगं लोहयुगमिति कथ्यते स्म । कालान्तरेण यथा यथा विज्ञानस्य प्रगतिः अभवत् तथा तथा नूतनानि उपकरणानि आविष्कृतानि । अनेकानि औषधानि संशोधितानि । अधुना मानवः गगने खगः इव विमानयानेन उड्डयनं यथा तथा अर्णवे अन्तर्जलगामिन्या मत्स्य इव तरणं कर्तुम् शक्नोति ।