ब्रह्मा जगतः प्रवर्तकः । जगतः पालनकर्ता विष्णुः,संहारकर्ता शिवः तथैव ब्रह्मा सृष्टिकर्तारूपेण स्थितः। वैदिकदेवता प्रजापतेः साकं अस्य अभेदः कल्पितुं शक्यते। किन्तु वेदान्तदर्शनस्य सर्वोच्चदिव्यसत्त्वा ब्रह्मोऽपलब्धिः योऽस्ति स तु भिन्नविषयः।संस्कृतव्याकरणदृष्ट्या ‘ब्रह्मन्’ इति प्रातिपदिकस्य पृथक् द्वे शब्दरूपे प्रचलतः। एकं रूपं ‘ब्रह्मन्’ इति नपुंसकलिङ्गे प्रचलति। यस्य कर्तरि प्रथमाया एकवचनर रूपं भवति ‘ ब्रह्म’। अस्य विशेष्यस्य साधारण-विमूर्तश्च द्वौ अर्थौ स्तः। अपरपक्षे पुं-लिङ्गे ‘ ब्रह्मन् ‘ इति शब्दरूपस्य प्रथमाएकवचनरूपं ‘ ब्रह्मा ‘ भवति। अस्य प्रयोगः जगतः प्रवर्तकरूपेण एव प्रसिद्ध:। अस्य विषयैव अस्माकं निबन्धः। सृष्टेः प्रारम्भकाले ब्रह्मणा प्रजपतयः रचिता। एते प्रजापतय एव मानवानाम् आदिपितरः भवन्ति। मनुस्मृतौ एतेषां नामानि वर्तन्ते।(मारीचि, अत्रिः, अङ्गिरसः, पुलस्तः, पुलहः, क्रतुजः, वशिष्टः, प्रचेतसः वा दक्षः, भृगुः, नारदश्च ) एते ‘ सप्तर्षिः’ नाम्ना ख्यातः। एते ब्रह्मणः मानसपुत्राः भवन्ति। यथा अस्य (ब्रह्मणः) देवतानां विषये हस्ताक्षेपः न तथा नश्वरानां (मानवानां) विषये भवति। ब्रह्मा अत्रि-धर्मयोः पितारूपेऽपि स्थितः। ब्रह्मा अरुणवस्त्रं परिधरति। ब्रह्मा चतुर्भुजः चतुर्मुखश्च। इतरदेवतावत् ब्रह्मा अस्त्रं वा शस्त्रं वा न धरति। सः एकहस्ते दण्डम् अन्यहस्ते पुस्तकञ्च धरति। जपमाला तथा वेदाः इतरहस्तौ भवन्ति।