काली (Kali )

अनन्दशक्तिसंयुता सनातनधर्मस्य देवी काली । एतत् पदं कालः (समयः विधिः) इति पदेन निष्पन्नम् । कृष्णवरीया देवी इत्यपि अस्य भावः । शिवस्य अपरं नाम कालः इति अस्य पत्नी काली भवति । एषा परिवर्तनस्य देवता । विविधेषु शाक्तहिन्दुविश्वशास्त्रेषु शाक्ततान्त्रिकविश्वासेषु च एताम् एव परमसत्यं ब्रह्मन् इति पूजयन्ति । भवतारिणी इति भक्ताः एताम् अर्चयन्ति । प्रकृतदिनेषु भक्तिपथस्य जनाः कालीं मङ्गलकरा महामाता इत्यपि पूजयन्ति । काली भगवतः शिवस्य सखी । तस्य शीरे एव तिष्ठति । दुर्गा, सती, भद्रकाली, रुद्राणी, पार्वती, चामुण्डेश्वरी इत्यादीनि रूपाणि अपि भवन्ति । दशमाहाविद्याः, दशभयङ्करतान्त्रिकदिविषु एषा अग्रगण्या अस्ति । कालः नाम समयः इत्यपि अर्थः काली इत्यस्यार्थः कृष्णवर्णीया अथवा कालवती, कालातीता इति भवति ।काली शिवेन शैवैः च दृढः सम्बन्धः अस्ति । काल्याः स्त्रीलिङ्गरूपं कालस्य स्तीरूपेण प्राप्तम् । संस्कृतस्य प्राचीननिघण्टुः शब्दकल्पदुरमम् एवं वदति कालः शिवः तस्य पत्नी काली इति । अस्याः नामावल्यां कालरात्रिः इत्यापि अस्ति । देव्यः तन्त्रयोगस्य अध्ययने आचरणे च महत्तरं भूमिकां निर्वहन्ति । पुरुषदेवताः इव वास्तवस्वरूपं ज्ञातुं विवेचनशक्तियुक्तं केन्द्रम् इति विश्वस्तम् । तथापि पार्वती स्वीकर्त्री तन्त्ररूपेण शिवस्य पाण्डित्यं प्राप्यमाना छात्रा इति उक्तम् । तान्त्रिकप्रतिमाशास्त्रे ग्रन्थेषु आचरणेषु च काली एव प्रमुख्यं प्राप्तवती । डि.किन्ल्से १२२पुटानि ब्रह्मा, विष्णुः, शिवः इति देवाः समुद्रस्य फेनबुद्बुदानि इव ताया एव उद्भूताः स्वेषां मूलम् अपरिवर्त्य संरक्ष्य निर्गच्छन्ति इति निर्वाणतन्त्रम् । निरुत्तरतन्त्रम्, पिच्चिलतन्त्रम् च काल्याः सर्वे मन्त्राः सर्वश्रेष्ठाः इति घोषयतः । योगिनीतन्त्रम्, का

Leave a Comment