गणतंत्र दिवस पर संस्कृत में निबंध। Essay on Republic Day in Sanskrit

अस्माकं देशः १९४७ तमस्य वर्षस्य ‘अगस्त’-मासस्य पञ्चदशे दिनाङ्के स्वतन्त्रम् अभवत् । परन्तु तदानीं अस्य किमपि स्वकीयं संविधानं न आसीत्। अतः डॉ राजेंद्रप्रसाद महोदयानाम् अध्यक्षतायां संविधाननिर्माणाय एकस्याः परिषदः स्थापना अभवत। यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः। अतः अयं दिवसः बहुमहत्वपूर्णः विद्यते।

अस्मिन् दिवस सर्वासु शिक्षण-संस्थासु ध्वजोत्तोलनं भवति, विविधाः कार्यक्रमाः आयोज्यन्ते, राष्ट्रगानं गीयते, मिष्टान्नादीनां वितरणं च क्रियते। सर्वेषु अद्भुतः आनन्दः, उत्साहः, देशभक्तिश्च दृश्यते। अयं उत्सवः दिल्लीनगरे महता उल्लासेन हर्षेण च सह मान्यते। अस्मिन दिवसे राष्ट्रपतिः राष्ट्रस्य नाम्ना संदेशं प्रसारयति। अस्य उत्सवस्य सर्वेSपि कार्यक्रमाः रेडियो-दूरदर्शन-प्रभृतियन्त्राणां मध्यमेन समग्रेSपि देशे श्रव्यन्ते दर्श्यन्ते च।

Leave a Comment