गुरु नानक देव (Gurunanak )

गुरु नानक सत्यं सर्वश्रेष्ठम् । तदपेक्षया सत्यजीवनम् अतीव श्रेष्ठम् । सत्यमिदम् अङ्गीकर्तुं जातिमतकुलादयः अवरोधाः नैव भवन्ति । मानवीयता आवश्यकी ‘इति वदति स्म ।गुरुनानकः १४६९ तमे वर्षे एप्रिल्मासस्य १५ दिनाङ्के जन्म प्राप्नोत् । अद्यत्वे इदं दिनं ‘प्रकाशदिन’त्वेन आचर्यते । हिन्दु खत्रिकुटुम्बे राय् भोय् दि तल्वाडिग्रामे सः जातः । अधुना अयं प्रदेशः पाकिस्थाने लाहोरसमीपे ‘ननकानासाहिब्’नामकः अस्ति । नानकी जयरामेण परिणीता । ततः सा तेन सह सुल्तान्पुरम् अगच्छत् यत्र जयरामः लाहोरस्य राज्यपालस्य दौलतखान्लोदेः साहायकः आसीत् । भारतीयसम्प्रदायानुगुणं गुरुनानकः अपि अग्रजया सह सुल्तानपुरम् अगच्छत् । १६ वर्षीयः गुरुनानकः दौलतखानस्य कार्यालये एव कार्यं प्राप्नोत् ।गुरुनानकस्य पत्नी माता सुलख्नी । षोडशवयसि एव तस्य विवाहः बटालानगरे जातः । तयोः पुत्रद्वयं श्रीचन्दः लक्ष्मीचन्दश्च ।’भाई लेह्ना’ अग्रिमः गुरुः इति नियुक्तवान् गुरुनानकः । तस्मै गुरु अङ्गदः इति पुनः नामकरणम् अकरोत् । घोषणस्य अनन्तरं केषुचित् एव दिनेषु गुरुनानकः दैवे ऐक्यतां प्राप्नोत् । तदा तस्य वयः आसीत् ७० वर्षाणि ।

Leave a Comment