नरेन्द्र मोदी (Narendra )

नरेन्द्र दामोदरदास मोदी वर्यस्य समर्थत्वेन दूरदर्शि नेतु: स्वरूपे आदरं कुर्वन्ति। य: पारदर्शितया निश्चितरीत्या च सर्वेषां जीवनं परिवर्तयन् समीकुर्वन् च वर्तते। महोदय: कुशल: वक्ता निपुण: मन्त्रणाकार: चास्ति। श्रीनरेन्द्रमोदी ग्रामीणानां नागरिकानां समानं स्नेह प्राप्नोति। तस्य अनुयायिषु समाजस्य प्रत्येकसम्प्रदायस्य धर्मस्य – आर्थिकवर्गस्य च जना: समाविष्टा: सन्ति। उत्तरगुजरातराज्यस्य महेसाणामण्डलस्य वडनगरनामक: कश्चन लघुग्राम:, यत्र १९५० तमे वर्षे ‘सितम्बर’-मासस्य सप्तदशे दिनाङ्के नरेन्द्रमहोदयस्य जन्म अभवत्। आर्. एस्. एस्. मध्ये स्व-कार्यकालावसरे श्री नरेन्द्रमोदीवर्य: १९७४ तमे वर्षे भ्रष्टाचारविरुद्धे आन्दोलने आपत्काले यदा भारतीयनागरिकाणां मूलाधिकाराणां हननं जायमानम् आसीत् तदा तादृशेषु अवसरेषु तेन महत्त्वपूर्णा: भूमिका: निरूढा:। तस्य नेतृत्वे शिक्षणं – कृषि: आरोग्यसेवया सहितं नैकेषु क्षेत्रेषु महत् परिवर्तनं दृष्टुं शक्यते। तेन राज्यस्य उज्वलभविष्याय स्वदृष्टि: स्थिरीकृता। नीति-अनुगुणं परिवर्तनम् आनेतुं कार्यक्रमा: आरब्धा:। सर्वकारस्य प्रशासनविभागानां पुन: व्यवस्थां कृत्वा गुजरातं सफलतापूर्वकं समृद्धिपथम् आनीतवान् माननीय: नरेन्द्रमोदीवर्य:। २०१४ तमस्य वर्षस्य मई-मसास्य षड्विंशतितमे दिनाङ्के राष्ट्रपतिः प्रणब मुखर्जितेन प्रधानमन्त्रिशपथम् अकारयत् । अधुना सः प्रधानमन्त्रित्वेन देशस्य मार्गदर्शनं कुर्वन् अस्ति ।

Leave a Comment