नर्मदा संस्कृत निबंध। Essay on Narmada in Sanskrit

पावनसलिलानर्मदा मध्यप्रदेशस्य जीवनदायिनी सरिता अस्ति। एषा एव रेवा-मेकलसुतादिभिः अनेकनामभिः प्रसिद्धा। अस्याः उभयोः तटय़ोः अनेकानि तीर्थस्थानानि, तपस्विनाम् आश्रमाश्च सन्ति। प्राचीनकालादेव अस्याः पावनतटय़ोः तपस्विनां सिद्धस्थलानि सन्ति। अतः जनाः नर्मदायाः परिक्रमणं कृत्वा आत्मानं धन्यं पवित्रं च मन्यते।
अनूपपुरमंडले अमरकंटकं नाम पर्वतः अस्ति। तत एव नर्मदा प्रादुर्भावति। ततः जाबालिपुरम् आगच्छति। श्वेतशिलाखंडानां कृते अतिप्रसिद्धे भेड़ाघाटनामके स्थाने धूमधारजलप्रपातस्वरूपं धारयति। तद् अवलोकनार्थं बहवः पर्यटकाः अत्र आगच्छन्ति। नर्मदानद्यामेव बरगी-इंदिरासागर-सरदारसरोवरादयः बहवः बन्धाः निर्मिताः सन्ति। यावन्तः बन्धाः नर्मदानद्यां सन्ति तावन्तः अन्यासु नदीषु न सन्ति। एभिः बंधै: विद्युदुत्पादनं, भूमिसेचनम्, जलपरिवहनं, पर्यटनस्थलनिर्माणम् इत्यादयो विविधलाभाः भवन्ति।

Leave a Comment