बसंत पंचमी संस्कृत निबंध। Basant Panchami Essay in Sanskrit

माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ ऋतुराजवसन्तस्य आगमनसूचना भवति। वसंतपंचमी श्रीपञ्चमी नाम्ना अपि ज्ञायते। अस्मिन् समये प्रकृतेः सौन्दर्यं चरमोत्कर्षम प्राप्नोति। सर्वत्र रमणीयतायाः दर्शनम् भवति। वृक्षेषु नूतनकिसलयरागः राजते। क्षेत्रेषु सर्षपपुष्पाणां सुषमा पीतिमा च मनोहारिणी दृश्यते। आम्रेषु मञ्जरीं परितः भ्रमंतः भ्रमराः दृश्यन्ते। कोकिलानां मधुरस्वरः चित्तम् आकर्षति। वसंतोत्सवे शीतकालस्य अनन्तरं परम्परया सौन्दरस्य पूजनं क्रियते। विविधैः पुष्पैः, नवान्नैः, फलैः च ऋतुराजस्य वसन्तस्य स्वागतं भवति। एषः उत्सवः सौन्दर्यस्य रमणीयतायाः पुष्पाणां, किसलयनां मधुरागमनस्य च उत्सवः अस्ति।

Leave a Comment