यष्टिकन्दुकक्रीडा (Hockey )

यष्टिकन्दुकक्रीडा एका प्रसिद्धा कन्दुकक्रीडा वर्तते । वर्तमानसमये एषा भारतदेशस्य राष्ट्रियक्रीडा वर्तते ।कन्दुकं प्रति विश्वमानवस्याकर्षणमतीव प्राचीनकालादेव प्रवृत्तं प्रतीयते । हस्ताभ्यां पद्भ्यां कन्दुक-क्रीडनान्याचरन्तः कदाचिदुपकरणैरपि क्रीडितुं विहितोत्साहा बालाः कठोरं कन्दुकं यष्टया ताडयित्वाऽपि खेलनमारभन्त । अस्याः क्रीडायाः प्रारम्भः कदा समजायतेति विषये न सन्ति सर्वेऽपि क्रीडेतिवृत्तविद ऐकमत्यधराः । परं सर्वेषामिदमस्त्यभिमतं यद् ‘दण्डेन क्न्दुकताडन-सम्बन्धिनीयं क्रीडा वस्तुतो विश्वस्य प्राचीनासु क्रीडास्वेकाऽवश्यमस्ति ।’ अतोऽस्याः कल्पनाऽऽदिकालादेव कर्तुं शक्यते । आधुनिक्या यष्टिकन्दुक- क्रीडायाः क्रीडनं सर्वप्रथमम् इंग्लैण्डे एकोनविशयां शत्यामभवत् । तददेशीये राष्ट्रिय-संग्रहालये तादृशिं चित्राणि समुपलभ्यन्ते यैरनुमीयते यद विजयिनो रोमन-सैनिका इमां क्रीडां चतुर्दश्यां शत्यां क्रीडान्ति स्म । तत्रत्या इमां ‘बोण्डी’ति गदन्ति स्म । अस्या वास्तविकं नाम ‘हाकिक’ अथवा हाककिक प्रायः १८३३ ई. वत्सरे प्रवृत्तम् । अमेरिकाया आदिवासिनो हरिणस्य चरणास्थ्नो यष्टिकां तथा तदीयकृत्तेः कन्दुकं निर्माय क्रीडन्ति स्म । उत्तरामेरिकायां क्रीडेयं हिमे क्रीडयते स्म, यद्यपि तत्र यष्टेः प्रकारो भिन्नोऽभवत् । भारतेऽन्यासां कतिपयक्रीडानामिवेयं क्रीडाऽपि इंग्लैण्डत एव समागच्छत् । आंग्लसेनापदाधिकारिणः सर्वप्रथमं कलकत्तामहानगर्यां १६०५ तमे वर्षेऽक्रीडन ।

Leave a Comment