विजयादशमी (Vijayadashmi )

भारतदेशे नेपालदेशे च शरदे नवरात्रे देव्याः पूजनं लोके प्रचलितमस्ति । केचन देवीं स्वगृहे एव पूजयन्ति । केचन देवीं पूजयितुं मन्दिरं गच्छन्ति । नवरात्रे पूजितायाः देव्याः निर्माल्यस्य वितरणं दशम्यां भवति । दशम्याम् अवरे जनाः मान्येभ्यो जनेभ्यो देव्याः निर्माल्यं स्वीकुर्वन्ति । तत्र मान्यजना देव्याः घटस्य जलेन अवरान् जनानभिषिच्य देव्याःपूजने प्रयुक्तस्य चन्दनस्य शेषेण तेषां ललाटे तिलकं धारयित्वा दध्यक्षताः अपि तत्राऽऽरोप्य तेषां दक्षिणकर्णस्योपरि यवाङ्कुरानपि स्थापयित्वा तानाशीर्भिरभिः अनुगृह्णनति । गृहे देव्याः पूजने शुक्लपक्षस्य प्रतिपदि (नवरात्रस्य प्रथमे दिने ) गृहे घटस्थापना क्रियते । पूजकाः तदा एव देवीवेदिकायां यथाविधि यवारोपणं कुर्वन्ति । ततः प्रभृति नवरात्रपर्यन्तं प्रतिदिनं सायम्प्रातः देवीं पूजयित्वा दुर्गाकवचादियुतायाः सप्तशत्याः पठनमपि कुर्वन्ति । यथाशक्ति यथयारुच्यं च-महिष-कूष्माण्डादिबलिं च देव्यै समर्पयन्ति । गृहेगृहे यथाशक्ति देवीनैवेद्याय मिष्टान्नानि पच्यन्ते । देव्यै निवेदितानि तानि मिष्टान्नानि सर्वैः खाद्यन्ते । मिष्टान्नानि खादित्वा बालका मोदन्ते । सर्वे बालका बालिकाः च प्रसन्ना भूत्वा दोलया खेलन्ति च ।नवरात्राणाम् आचरणानन्तरं दशमं दिनं “विजयदशमी” इति उच्यते । विशेषतया विजयदशमी तु सर्वनिमित्तम् अपि प्रशस्तम् इति उच्यते । भारतवर्षस्य विविध प्रान्तानं इदम् पर्वम् विविध रूपेण आचर्यते । तद्दिनं बालानाम् अक्षराभ्यासाय, नूतनस्य उद्योगस्य आरम्भाय, विद्यारम्भाय, बीजवपनाय वा उत्तमं दिनम् । तद्दिने यत्किमपि कार्यम् आरब्धं चेदपि तत्कार्यं विजयं प्राप्नोति इति विश्वास: ।आन्ध्रप्रदेशे अयम् उत्सवः अश्वयुजमासस्य दशम्यां भवति। अश्वयुजमासस्य शुक्लपक्षस्

Leave a Comment