विद्यालयस्य वार्षिकोत्सवः | Annual School Function Essay in Sanskrit

विद्यालयस्य वार्षिकोत्सवः | Annual School Function Essay in Sanskrit

प्रायः प्रतिवर्षे विद्यालयाः स्वकीयां संस्थापना तिथि महता उत्साहेन समारोहण च संस्मरन्ति । पूर्व वर्षे कृत कर्मणाम् उपार्जित फलानां संग्रहीत-धनानाम् विवरण जनता समक्ष प्रस्तुतं कुर्वन्ति । विद्यालय संस्थापकाः अस्मिन् अवसरे संस्थायाः उन्नत्या गौरवेण च हर्षिताः दृश्यन्ते । प्रधानाचार्य महोदया: स्व अध्यापकैः सह विविधान् कार्यक्रमान् दर्शकाणां समक्षे आरम्भयन्तः दृश्यन्ते, छात्राश्च द्विगुणोत्साहन निज-निजाध्यापक संकेतेन कार्य कुर्वन्तः अवलोक्यन्ते ।

अस्मिन् वर्षे विद्यालयस्य वार्षिक महोत्सवासरे लब्ध प्रतिष्ठाः आगल विद्या विशारदाः मेरठ विश्व विद्यालयस्य पूर्व उपकुलपतयः डाक्टर रमेश मोहन महोदयाः सभापति पदं अलञ्चक्रुः । अस्मिन अवसरे बहवः नगर प्रसिद्धाः विद्वांसः, वैभवशालिनः प्रबन्धक मण्डल सदस्याः एकत्रिताः आसन् ।

कार्यक्रम-आरम्भ वेलायाम् छात्रै सुमधुरेण स्वरेण स्वागत गीतम्, तदनन्तर शिशूनां कविता पाठ, भाषणं, संगीतज्ञ अतीव मनोहरं आसीत् । अस्मिन् अवसरे सभापति महोदयानां सारगर्भित भाषणमपि अभवत् । कार्यक्रमाते पारितोषिक वितरण कार्य सम्पन्नमभूत् । केचन क्रीड़ा कुशलाः, केचन शिक्षा कुशलाः केचन अनुशासन कुशलाः छात्राः पारितोषिकम् प्राप्तवन्तः ।

समारोहावसाने मिष्टान्नम् फलानि च वितरितानि । प्रधानाचार्येण कस्य दिवसस्य अवकाश घोषितः । तदनन्तरं छात्राः सहर्ष स्वगृहं प्रस्थिताः ।।

Leave a Comment