विष्णुः सनातनधार्मिकाणां प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकः। विश्वरक्षकः च। तस्य पत्नी लक्ष्मीः। वाहनं गरुडः। आदिशेषस्य उपरि तस्य शयनम्। सः सर्वेषां जगताम् एकएव स्वामी। विष्णुः एव परमात्मारूपेण सर्वेषु भूतेषु तिष्ठति। विष्णोः उपासकः वैष्णवः नाम्ना ज्ञायते। वैष्णवेषु शिवः इव कोऽपि नास्ति “वैष्णवानां यथा शम्भुः”। विष्णुः सवेषां जीवानां परमः सुहृत्। भगवान् विष्णुः क्षीरसागरे निवसति। तस्य धाम वैकुण्ठः इति नाम्ना ज्ञायते। विष्णोः नाभेः कमलः जातः यत्र ब्रह्मा स्थितः अस्ति। इदं कृत्स्नं जगत् तस्य एव शक्त्या सञ्चालितम् अस्ति। सः निर्गुणः सगुणश्च अस्ति। पद्मपुराणस्य उत्तरखण्डे वर्णितम् अस्ति यत् भगवान् श्रीविष्णुः एव हि परमार्थं तत्त्वं वर्तते। सः अत्यन्तः दयालुः अस्ति। ध्रुवः प्रह्लादः अजामिलः द्रौपदी गणिका आदीनाम् अनेकेषां भक्तानाम् उद्धारः अस्य विष्णोः कृपया जातः। सः खलु भक्तवत्सलः विद्यते।निरुक्ते “यद्विषितो भवति तद्विष्णुर्भवति”इति कथ्यते। आदिशङ्करः विष्णोः अर्थः सर्वत्रगतः इति अवदत्।विष्णुः चतुर्भुजः अस्ति। तेषु पाञ्चजन्यम्-शङ्खम् सुदर्शन-चक्रम् कौमोदकी-गदाम् पद्मम् च धारयति। उक्तञ्च “वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी श्रीमान् नारायणोर्विष्णुः वासुदेवोभिरक्षतु” इति। सः मेघश्यामः अस्ति। तस्य वक्षः श्रीवत्सेन अङ्कितः। सः कौस्तुभमणिं वनमालां च धारयति। सः अनन्तनागे शेते।भीष्मः युधिष्ठिरस्य विज्ञप्तिम् अनुमन्यमानः विष्णोः सहस्रानामस्तुतिम् अकरोत्। यः विष्णोः सहस्रनामानि जपेत् सः जन्मसंसारबन्धनात् विमुच्यते इति मन्यते। एष: सहस्रनामावली महाभारते अनुशासनिके पर्वणि अस्ति।