अशोकः (क्रि पू २६९-२३२) समस्तभारतस्य सम्राट् आसीत्। सः मौर्यवंशस्य तृतीयः महाराजः आसीत्। सः कलिङ्गयुद्धे युद्धस्य दुष्परिणामान् दृष्ट्वा हिंसाम् त्यक्त्वा बौद्धधर्मम् स्वीकृतवान्। सः अनेकेषाम् अभिलेखनानाम् स्तूपानां च निर्माणं कृतवान्। न शोकं यस्य सः एव अशोकः। सः चक्रवर्ती इति अभिधानं लब्धवान्। सः प्रियदर्शी देवानाम्प्रियः इति अपि प्रसिद्धः। तस्य चरितम् अशोकवदनदिव्यवदनग्रन्थयोः कथितम्।सः बिन्दुसारस्य पुत्रः आसीत्। तस्य अनेके अग्रजाः वित्ताशोकः नाम एकः अनुजः च आसन्। सः क्षत्रियः सन् सैन्यविद्यां सकलानि शास्त्राणि च अपठत्। सः धीरः दक्षः भटः आसीत्। तस्य कौशलस्य कारणात् संक्षोभम् नाशयितुम् अवन्तिकापुरीं प्रति सः प्रेषितः। अशोकस्य वर्धमानां कीर्तिं दृष्ट्वा स्वभ्रातरः तस्मै ईर्ष्यन्ति स्म। तस्य ज्येष्ठभ्राता सुसीमः अशोकम् उद्दिश्य तक्षशीलायाह् संक्षोभम् नाशयितुम् आदिशत्। सः तान् तक्षशीलावासिनः युद्धप्रियायवनान् विजित्य पाटलिपुत्रं प्रत्यागच्छत्। सुसीमस्य वचनानुसारं पिता बिन्दुसारः अशोकं विवासनं गन्तुम् आदिशत्। अलक्ष्यलिङ्गः अशोकः कलिङ्गाम् गतवान्। तत्र सः कौर्वकी नाम धिवरपुत्रीं परिणीतवान्। सः कदाचित् बौद्धविहारे अवसत् | ततः सः स्वपितुः इच्छया उज्जयिन्याः प्रशासकः अभूत्। तस्य पितुः मरणात् अनन्तरम् स्वभ्रातॄन् सर्वान् हत्वा मौर्यसम्राट् बभूव।अशोकः चत्वारिंशत् संवत्सरान् प्राशासत्। तस्य मरणात् अनन्तरम् मौर्यवंशः नष्टः अभवत्। तस्य अनेके पत्न्यः पुत्राः पुत्र्यः च आसन्। तस्य प्रथमा पत्नी देवी आसित्। तस्य मरणस्य पश्चात् तस्य पौत्रः महाराजः अभवत्। क्रि पू १८५ तमे वर्षे अन्तिमः मौर्यराजः बृहद्रथः पुष्यमित्रशुङ्गेन हतः। सः भारतस्य प्रथमाभिलेखनानि कृतवान्। भारतगणराज्यं स्व