शिवः सनातनधर्मस्य प्रमुखः देवः अस्ति। सः एव विश्वनाशकोऽस्ति। तस्य सती, पार्वती द्वे भार्ये। सः भस्मेन अवलिप्तः। नीलकण्ठः सः कण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां मुकुटे च शशिनं धरति। तस्य करे डमरु-त्रिशूलश्च शोभते। त्रिशूलः त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्म वस्त्रमिव परिगृह्णाति । सः पञ्चाननः इति नाम्ना अपि प्रसिद्धः। तस्य विविधानि रूपाणि सन्ति। सः नूतनैः रूपैः लक्षणैश्च प्रतीयते। शिवः साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते। ध्यानमग्नस्य ताण्डवनृत्यरतस्य च शिवस्य मूर्तिः ख्यातः। ‘शिवम्’ इति विशेषणवाचकशब्दस्य अर्थः शुभं मङ्गलं च ।(आप्ते, पृ. ९१९., म्याक्डोनेल्, पृ:. ३१४) नामरूपेण ‘शिवः’ इत्यस्य अर्थः मङ्गलमयः इति । विशेषणरूपेण शिवश्शब्दस्य प्रयोगः न तु केवलं शिवाय अपितु इतरवैदिकदेवदेवीनां अभिधारूपेण व्यवहृतः आसीत्।(चक्रवर्तिः,पृ: २८) ऋग्वेदे इन्द्रः एकाधिकस्थले स्ववर्णनायाम् अस्य शब्दस्य(शिवः इति) प्रयोगं कृतवान्।(२:२०:३, ६:४५:१७, ८:९३:३)
विष्णुसहस्रनामस्तोत्रे विष्णोः २७ च ६००तमनामरूपेण शिवः एकाधिकार्थे प्रयुक्तः यथा- “पवित्रपुरुषः”, “प्रकृते: त्रिगुणातीतः(सत्त्व-रज-तमः) य:”, “यस्य नामोच्चारणमात्रेणैव मनुष्यस्य पापमुक्तिः भवति”।(श्री विष्णुसहस्रनाम,रामकृष्णमठसंस्करणम्, पृ.४७ एवं पृ. १२२.) शिवनामसम्बलित-“शिवसहस्रनामस्तोत्र”स्य पाठान्तरमपि लभ्यते।(शर्मा, रामकरण,१९९६) महाभारतस्य त्रयोदशपर्वणि(अनुशासनम्)शिवसहस्रनामस्तोत्रस्य मूलमिति विवेचितास्ति।(चिद्भवानन्द: पृ- ५) महान्यासे शिवस्य “दशसहस्रनामस्तोत्र”मपि लब्धम् अस्ति। “शतरुद्रीयम्” इति श्री रुद्रचमकस्तोत्रेऽपि शिवस्य विविधनामानि वर्तन्ते। (‘शतरुद्रीयम्”-शिवराममूर्तिः,१९७६)| शिवस्य एकं गुरुत्वपूर्णवैशिष्ट्यं भवति