ग्रीष्मावकाशः कथं यापितः | Summer Holidays Essay in Sanskrit
परीक्षा फलं श्रुत्वा हर्षित मानसः अहं कतिपयैः सहपाठिभिः सह कमपि पर्वतीय प्रदेशं दृष्ट्काम: विगते ग्रीष्मावकाशे नैनीताल नामकम् नगरम् गुमनाय मति अकुर्वम्। महता उत्साहेन सकलां यात्रा सामग्री एकत्रीकृत्य वयम् सर्वे ज्येष्ठ मासस्य शुक्ले पक्ष एकादश्यां प्रातः । षट्वादन वेलायां वाष्पयान विराम स्थान प्राप्ताः निर्धारित समयेन, वाष्प यानेन प्रचलिताः ।।
अन्येहः प्रातः वयम् ‘काठगोदाम’ इति नामकं वाण यान विराम स्थानं (स्टेशन) प्राप्ताः । तत्र यानात् अवतीर्य मोटर शकटेन नयनाभिरामं नैनीताले प्रति प्रस्थिताः । मार्गे मनोहारि दृश्यं पश्यन्तः आत्मानमपि विस्मृतवन्तः । अचिराव वयम् नैनीताले प्राप्ताः ।
प्रथममेव नयनाभिरामाम् ‘नैनीलेक’ इति नाम्ना प्रसिद्ध पुष्करिणीं दृष्ट्वा आनन्द मग्नाः जाताः । अस्याः पुष्करिण्याः सायंतनं दृश्यं अद्यापि हृत्पटले अंकितमेव । तस्याः रमणीये कूले सुन्दराः युवानः युवतयश्च, क्रीडन्तः बाला, लगुडहस्ताः वृद्धाश्च भ्रमन्तः, तिष्ठन्तः, वार्तालापं कुर्वन्त: अवलोक्यन्तेस्म । कुत्रचित् नौका विहारार्थम् नाव: प्लवन्ते । केचन मानं कुर्वतः, केचन प्रक्षालनं कुर्वत, केचन क्रीड़ा रस निमग्नाः दृष्टिपथं आयान्ति स्म ।
अन्यस्मिन् अनि वयम् नैनीताल पर्वतस्य ‘चीनापीक’ इति प्रसिद्ध सर्वोच्च शिखरम् दुष्टता प्रस्थिताः । तत्रत्यां सुषमां दृष्ट्वा अन्येषुः ‘नन्दा देवी’ ‘नैनी देवी’ इति नाम्यो देव्योः पूजा, अर्चनां, पादाभिवन्दनाञ्च कृत्वा पुनः स्वनगर प्रत्यावर्तिताः ।।
एवम् ग्रीष्मावकाशस्य क्षणानि व्यतीतानि ।।।