चाणक्यः (Chanakya )

चाणक्यः मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सः प्राचीनभारतस्यप्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च । चाणक्य: अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् । राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति ।चाणक्यस्य पिता चणकः कश्चनब्राह्मणः आसीत् । बाल्ये चाणक्यः सर्वान् वेदान् शास्त्राणि च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म । सः यौवने तक्षशीलायाम् अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत् । अतः चाणक्यः धनानन्दम् प्रति प्रतीकारम् ऐच्छत् । चाणक्यः धीरेण चन्द्रगुप्तमौर्येण मिलित्वा तं सिंहासने स्थापयितुम् अचिन्तयत् । एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच ” पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत् । अपूपम् तस्य कोणात् खाद” इति । तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत् । ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत् । विशाखदत्तस्य नाटकम् मुद्रराक्षसं चाणक्यस्य चरितं कथयति ।

Leave a Comment