तीर्थराजः प्रयागः | Teerthraj Prayag Essay in Sanskrit
प्रयागराजस्य सर्वत्रैव यशोगानं गीयते विशेषतः पुराणेषु, रामायणादिषु महाकाव्येषु च। भौगोलिक दृष्ट्या भारतवर्षस्य उत्तर प्रदेश राज्ये प्रयागराज: स्थितः । अत्र गंगा-यमुना-सरस्वतीनाम् सितासित पावने जले स्नानं कृत्वा मनुजाः पाप रहिताः भवन्ति इति विश्वस्यते धार्मिकैः जनैः। ब्रह्मणा अत्र प्रकृष्ट याग करणात् अस्य संगमस्थलस्य नाम प्रयागः अभवत् । ।
| माघ मासे लक्षाधिकाः जनाः प्रतिवर्ष अत्रागत्य संगमस्य पवित्र जले स्नात्वा स्वकीयम् भौतिक शरीरं पावयन्ति, सिद्धपुरुषाणाम् दनिन विदुध उपदेशामृतेन च अन्तरात्माम् अपि प्रक्षालयन्ति। पेभारद्वाजस्य आश्रमः अपि प्रयाग एवं स्थितः आसीत् यत्र प्राचीन समये दश सहस्र मिताः अन्तेवासिनः अधीतिनः आसन् ।
अकबर नामकः मुगल शासकः अत्रैव गंगायमुनाभ्याम परिवृतं दृढ़ दुर्गमकारयत्। वर्षात गंगायाः असह्य धारा प्रवाहातु दुर्गस्य रक्षणाय विशाल बन्धमप्यकारयत । यः अद्यापि गंगायाः नगरस्य च मध्ये सीमारेखा इव स्थितः ।। अकबरः स्वकीयस्य ‘इलाही’ धर्मस्य अनुसारेण प्रयागराजस्य नाम ‘इलाहाबाद इत्यकरोत् । इदं दुर्गम् अतीव विशालं सुदृढमस्ति ।।
प्रयागे पण्डित मोती लाल नेहरू महाभागस्य विशाले प्रासादे एवं स्वतंत्रता आन्दोलनस्य प्रधान कार्यालयः आसीत् । सम्पूर्ण भवनम् ‘स्वराज्य भवन’ इति नाम्ना प्रसिद्धिमवाप्तम् स्वतन्त्रता संग्रामकाले । इयमेव क्रीड़ास्थली एवं कर्मस्थली अस्माकम् राष्ट्रनायकस्य पण्डित जवाहर लाल नेहरू महाभागस्य ।।
| देश-विदेशः छात्रैः परिवृतः विविध विद्या पारंगतैः विद्वभिः उपशोभित प्रयाग विश्व विद्यालयः अत्रैव शोभते । अस्य विश्व विद्यालयस्य या कीर्तिः सा न कस्यापि अन्यस्य विश्व विद्यालयस्य । प्रान्तस्य सर्वोच्च न्यायालयः अत्रैव विराजते । हिन्दी-प्रचार-प्रसारे समर्पितम् हिन्दी साहित्य सम्मेलनम् अपि अन्न स्थितम् । प्रति कुम्भम् कोटिशः जनाः सुदूरदूरात् आगत्य गंगायमुनयोः संगमें सान्ति कृतार्थयन्ति च आत्मानम्। महाकविना कालिदासेम सत्यमेव उक्तम:
समुद्रपन्यो: जल सन्निपाते, पूतात्मनामत्र किलाभिषेकात् । तत्त्वावबोधन विनापि भूयः तनुज्यजां नास्ति शरीरबन्धः ।।