पश्चिमवङ्गराज्ये आश्वयुजमासः (सप्टम्बर्-अक्टोबरमासयोः वर्तमानः) वर्षस्य् प्रमुखभागायते । यतः अस्मिन्नेव मासे महोत्साह दायकं नवरात्रोत्सवम् आचरन्ति तत्रत्याः । दुर्गापूजायाः आचरणस्य परम्परा बह्वीभ्यः शताद्वीभ्यः पूर्वम् एव आरब्धा । द्वादशशताब्द्ययाः पूर्वात् एव आरभ्य आचर्यते स्म दुर्गापूजा इति ज्ञायते भारतीयस्य साहित्यस्य अध्ययनेन । एतस्मात् स्पष्टं यत् आ बहोः कालात् अविच्छिन्नतया उत्सवोऽयम् आचर्यमाणः अस्ति तत्र इति । पूर्वं भूस्वामिनः वाणिज्यकाराः च स्वगृहेषु पूजाम् आयोजयन्ति स्म । तत्सम्बद्धं व्ययं स्वयं वहन्ति स्म च । जातिभेदं, धनिकारिद्रभेदं च विना सर्वेऽपि प्रतिवेशिनः पूजास्थाने उपस्थिताः भवन्ति स्म । सर्वेषां स्वागतं, पूर्णोदरं भोजनं च भवति स्म । किन्तु अद्यत्वे सा पूजा जातितरिधाउ एव आचर्यते जनैः स्वयम् एव । एतदर्थं घटितेषु सङ्घेषु, समितिषु, समूहेषु च पूजामाध्यमेन क्र्मशः शीलविकासः जायते स्म पूर्वम् । सामाजिकधार्मिकप्रतिकभूतः एष उत्सवः अत्युन्नतां प्रगतिं प्राप्नोति स्म अपि । किन्तु इदानीम् एतत् परिस्थितिवशात्, वैभवाडम्बरादि प्रदर्शनकारणं जातम् अस्ति । पूर्वं दुर्गा एका एव पूज्यते स्म । किन्तु इदानीं सा परिवारसहिता द्दस्यते । पत्युः शिवस्य, पुत्रयोः गणेशकर्त्तिकेययोः समक्षे दुर्गायाः मूर्तिः प्रमुखतया यथा भासेत् तथा कृत्वा दिव्यसन्निधिं चित्रयन्ति । पूजा दिनत्रयं यावत् भवति ।