साम्प्रतिके काले निखिलेSस्मिन् जगति मानवसभ्यतायाः समक्षमनेके समस्यात्मका दुष्प्रभावाः समुज्जृम्भते। पर्यावरणस्य प्रदूषणमपि तथैव मुख्या समस्या मानवसभ्यतायै परिदृश्यते। अधुना औद्योगिकप्रसारेण न केवलं जलं, वायुः, फलमन्नादिकं च प्रदूषितमपितु समग्रमपि भूमण्डलं दूषितं भवति। प्रतिदिनं परमाणुयंत्राणां रेडियोधर्मिता सर्वत्र प्रसरति, विषाक्तगैसीयतत्वानां प्रसारेण, बृहदाकारौद्यौगिक यंत्राणामपशेषितैः पदार्थैः,विविधानां यानादीनां धूमपुञ्जैश्च तथैवान्यैः संयंत्रादिभिः सर्वत्रवातावरणं भूलोकस्य वायुमण्डलं प्रदूषितं भवतीति वृत्तं दृग्गोचरी भवति। अस्मिन् वैज्ञानिके युगेSपि यदि पर्यावरणप्रदूषणस्य निरोधोपायः समुचितो न स्यात्तदा कस्मिन् युगे भविष्यति।
पर्यावरणप्रदूषणस्य प्रभावाद् जगति रोगदीनां वृद्धिः सञ्जाता, अन्नपानादिषु रेडियोधर्मिपदार्थानां सम्मिश्रणात् सर्वत्र वायुमण्डलम तु दूषितं भवत्येव, तस्माद् आनुवंशिकप्रभावोंSपि भवति। अनेन भविष्यत्काले मानवसभ्यताया विनाशोSवश्यम्भावीति निश्चप्रचम्। विश्व स्वास्थ्य संघटनेन पर्यावरणसन्तुलनार्थमनेके उपायाः प्रतिपादिताः। अस्माकं देशेSपि पर्यावरणप्रदूषणस्य निवारणार्थं सर्वकारद्वारा व्यवस्था क्रियते, तदनुसारं, गंगानद्याः स्वच्छताभियानं, अशुद्धजलमलादीनां, विशुद्धयर्थं संयन्त्राणि स्थाप्यन्ते जनजागरणमपि प्रचलति प्रदूषणनिवारणस्योपायाः, विधयश्चापि निर्दिश्यन्ते। एवञ्च विविधोपायैरेव पर्यावरणस्य संरक्षणं भवितुमर्हति।