प्रणब मुखर्जि (Pranav )

प्रणबकुमार् मुखर्जि जननम् – १९३५ डिसेम्बर् ११) भारतस्य राष्ट्रपतिरूपेण चितः अस्ति । तेन ७२ प्रतिशतं मतानि प्राप्तानि तन्नाम ५.१८ लक्षपरिमितानि मतानि । मुखर्जिः भारतीय राष्ट्रियकाङ्ग्रेस्पक्षस्य ज्येष्ठः नेता आसीत् । राष्ट्रपतिनिर्वाचने भागग्रहणाय २०१२ तमस्य वर्षस्य जुलै २२ तमे दिनाङ्के सः स्वस्य स्थानाय त्यागपत्रम् अयच्छत् । सः जुलैमासस्य २५ तमे दिनाङ्के राष्ट्रपतिपदं समलङ्करोत् ।मुखर्जिः ब्रिटिश्भारतस्य वङ्गराज्ये मिरटिप्रदेशे जन्म प्राप्तवान् । तस्य पिता कामद किङ्कर मुखर्जि भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य सदस्यः आसीत् । भारतीयस्वातन्त्र्यसङ्ग्रामे गृहीतभागेन तेन दशाधिकवर्षाणि यावत् ब्रिटिशकारागृहे जीवनं यापितम् । प्रणबस्य माता राजलक्ष्मी मुखर्जि । तस्य अग्रजा अन्नपूर्णा मुखर्जि । प्रणबः सुरि (बिर्भम्) नगरस्थे सूरिविद्यासागरमहाविद्यालये अध्ययनम् अकरोत् । अयं महाविद्यालयः कल्कत्तविश्वविद्यालयव्याप्तौ विद्यते । सः इतिहासं, राजनैतिकविज्ञानं च अधीत्य कलापदवीं प्राप्तवान् । कलकत्ताविश्वविद्यालयतः न्यायशास्त्रे अपि पदवीं प्राप्तवान् । २०११ तमे वर्षे वोल्वर्हाम्प्टन्-विश्वविद्यालः गौरवडाक्टोरेट्पदविप्रदानपूर्वकं तस्य सम्माननम् अकरोत् । २०१२ तमस्य वर्षस्य मार्चमासे अस्सम्विश्वविद्यालयः गौरव-डिलिट्पदव्या तस्य सम्माननम् अकरोत् ।मुखर्जि तस्यौद्यगम् कल्कत्ता नगरस्य पत्राचारविभागे(पोस्टल् ऽ टेलिग्राफ़् ) उप-गणक प्रतिनिधि (डेपुटीअकोन्टन्ट् जेनेरल्) कार्यालये उच्च-विभाग-कार्यदर्शी (अप्पेर् डीविशन् क्लेर्क्) रूपेण आरब्धवान् । १९६३ तमे वर्षे विद्यानगर महविद्यालये राजकीयवैज्ञानम् अध्यापयितुम् आरब्धवान् । अपि च सः “ देशट् दक्”(मातृभूमेः आह्वानम्”) इत्यस्याम् पत्रिक

Leave a Comment