बालगङ्गाधर तिलकः (Bal )

बालगङ्गाधर तिलकः (क्रि.श.१८५६ तः १९२०) कश्चन महान् राष्ट्रभक्तः । भारतस्य स्वातन्त्रसङ्ग्रामे प्रमुखः नेता आसीत् । स्वतन्त्रतायाः आन्दोलनस्य प्रसङ्गे सः अघोषयत्‌ स्वराज्यम्‌ अस्माकं जन्मसिद्धः अधिकारः, तस्य प्राप्तेः अनन्तरमेव मम विरामः इति । समाचारपत्राणां प्रकाशनं सम्पादनं च कृत्वा स: देशसेवां करोति स्म । बहुबारं कारागारवासम् अनुभूतवान् स: संस्कृते विद्वान्‌ आसीत्‌ । अयं भारतीयः, राष्ट्रयवादी, समाजोत्थापकः स्वातन्त्र्ययोद्धा च । भारतीयप्रज्ञायां सम्पूर्णस्वराज्यप्राप्तेः आशा एतेनैव अङ्कुरितः । अनेन एतं राष्ट्रियतावादस्य पितामहः इति कथयन्ति स्म । अतीव जनप्रियः नायकः सन् लोकमान्यः इत्येव ख्यातः जातः । अद्यापि तस्य नाम एव लोकमान्यः इति बहवः मन्यन्ते । तिलकमहोदयः इतिहासं, संस्कृतं, हिन्दूधर्मं, गणितं, खगोलशास्त्रं च गभीरतया अधीतवान् आसीत् ।

Leave a Comment