भगत सिंह (Bhagat )

भगतसिंहः स्वतन्त्रभारताय स्वप्राणाहूतिं दत्त्वा अमरः अभवत् । कश्चन सायन्तनः कालः । त्रिवर्षियः कश्चन बालकः स्वपित्रा सह विहारं कुर्वन् आसीत् । ताभ्यां सह कश्चन वृद्धः अपि आसीत् । सम्भाषणं कुर्वन्तः ते ग्रामसीमां प्राप्तवन्तः । तत्र सस्यानां हरितवर्णेन परिसरः आह्लादकरः दृश्यते स्म । भाषणं कुर्वन्तः ते एकस्य सस्यक्षेत्रस्य घट्टं प्राप्तवन्तः । बालकस्य आगमनशब्दः न श्रूयते इति पिता परिवृत्य दृष्टवान् । बालकः क्षेत्रे उपविश्य किमपि खनति स्म । “किं करोति वत्स?” इति पिता पृष्टवान् । “पश्य तात ! अस्मिन् क्षेत्रे अहं सर्वविधसस्यानि सफलानि करोमि ।” इति बालकः उक्तवान् । तस्य बालस्य नयनद्वयं द्योतते स्म । क्षेत्रे अवश्यं फलं प्राप्नोमि इति विश्वासः तस्य वचनेषु ध्वन्यते स्म । तस्य स्वरेण तौ ज्येष्ठौ आश्चर्यान्वितौ अभवताम् । सः बालकः एव भगतसिंहः । अनन्तरकाले मातृभूमिं स्वतन्त्रं कर्तुं वीरोचितं युद्धं कृतवान् अयं समरसिंहः ।पञ्जाबप्रान्तेलाहोरजनपदे बङ्गा इति ग्रामः । सरदारकिषनसिंह इत्येतस्य वीरपुरुषस्य वंशजाः तत्र निवसन्ति स्म । तस्मिन् वंशे अनेके वीराः आङ्ग्लेभ्यः भारतस्य विमोचनं कारयितुं युद्धं कृतवन्तः ।बालके भगतसिंहे सर्वे स्निह्यन्ति स्म । अग्रे कदाचित् एषः बालकः प्रसिद्धो भविष्यतीति सर्वे परस्परं कथयन्ति स्म । तस्य मातुः विद्यावत्याः जीवनम् आरम्भतः अपि कष्टैरेव यातम् । क्रान्तिकारी तस्याः पतिः सर्वदा अज्ञाततया पर्यटन् गृहतः दूरे एव भवति स्म । भगतसिंहस्य कनिष्ठपितृव्यौ आस्ताम् । तयोः स्वरणसिंहम् आङ्ग्लेयाः द्वितीयपर्यायार्थं कारगारं प्रेषितवन्तः । कारागारजीवनं दुर्भरम् आसीत् । अतः स्वरणसिंहः रोगग्रस्तः अभवत् । कारागारतः विमोचनानन्तरमपि तस्य स्वास्थ्यं सम्यक् नाऽभवत् । कतिपयदिनेषु सः द

Leave a Comment