मम प्रियतमः अध्यापकः | My Favorite Teacher Essay in Sanskrit

मम प्रियतमः अध्यापकः | My Favorite Teacher Essay in Sanskrit

अस्माकं विद्यालये विशति अध्यापकाः सन्ति। ये विद्वांसः गुणिनश्च सन्ति । ते सर्वे एवं मम पूज्या अध्यापकाः सन्ति । तेषु अध्यापकेषु श्रीमन् रूपचन्दः शास्त्रि: मम प्रियतमः अध्यापकः अस्ति।

श्रीमान् रूपचन्द्र शास्त्रि: त्रिंशत् वर्षीयः अध्यापकः अस्ति। सःसंस्कृत साहित्ये स्नातकोत्तरं (एम.ए.) परीक्षा उत्तीर्य शोध-प्रबन्धं लिखित्वा प्रवक्ताः अभवत्। सः अस्मान् संस्कृतं पाठयति । असौ मधुर भाषीः, आस्तिकः, सदाचारी, धार्मिक, सुशीलः च अस्ति । स कदापि धूम्रपानं सुरापानं वा न करोति ।।

तस्य अध्यापन विधि सुस्पष्ट, सरला, सुबोधा च अस्ति । असौ विद्यावारिधिः । सः यथा छात्रान् उपदिशति तथैव स्वयमपि कार्य करोति । सः सर्वदा प्रियं हितं च वचनं वदति । सः सर्वदा सर्वान् छात्रान् अध्ययने प्रेरयति ।। सः सदा छात्राणां हितम् इच्छति । स स्व उत्तरदायित्वं सम्यक् निर्वहति । अतएव न केवलं छात्राः अपितु शिक्षकवर्गः अपि तं भूयः प्रशंसन्ति ।। एतादृशाः एवं गुरवः यदि सर्वत्र भवेयुः तर्हि श्लोकमिदमत् चरितार्थभ् स्यात् |

अज्ञान तिमिरान्धस्य ज्ञानाञ्जन-शलाकया।

चतुरुन्मीलितं येन तस्मै श्री गुरवे नमः ।।

एतादृशानाम् गुरुवर्याणाम् कृते एवं उच्यते:

गुरुर्ब्रह्मा गुरुर्विष्णुः गुर्देवो महेश्वरः ।

गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ।

Leave a Comment