मम विद्यालयः | My School Essay in Sanskrit

मम विद्यालयः | My School Essay in Sanskrit

असारेऽस्मिन् संसारे सारभूतं वस्तु विद्येव वर्तते । विद्यालयः विद्यावा केन्द्रं भवति । मम विद्यालयः नगरादविदूरे वर्तते । विद्यालय परितः एका दृढाभित्तिः विरचिता अस्ति । मुख्यद्वारेण प्रवेश काले वाटिकाया. सुमनोहराणि सुमनानि उभयतः भवतां स्वागतं कुर्वन्ति । अस्य वातावरणम् अतीय मनोहरम् अस्ति । सर्वतः शुद्धः वायुः वहति । ।

द्वार समीपे प्रधानाचार्यस्य कार्यालयः लिपिकानां च कार्यालयः स्थितोऽस्ति । समीपे एवं पुस्तकालयोऽपि वर्तते । अस्मिन् पुस्तकालये नाना विषयाणां पुस्तकानि सन्ति । छात्राः तानि अधीत्य विविध विषयं ज्ञानम् अर्जयन्ति । विद्यालयस्य उत्तरस्यां दिशि एकः वाचनालयः अपि वर्तते । विद्यालये भवने सप्तति कक्षाः सन्ति । सर्वेषु कक्षेषु श्यामपटाः सुधालेखिन्यश्च उपस्थिताः सन्ति ।

पञ्चशतोत्तर सहस्रछात्राः प्रतिवर्षम् अत्र विद्यलाभं कुर्वन्ति । अस्मिन् विद्यालये नवति अध्यापकाः पाठ्यन्ति । ते अध्यापका: अति निपुणाः गुणिनश्च सन्ति । मम विद्यालये द्वारपालः मार्जक: जलपाययिता तथा च अन्ये बहवः कार्यकत्तरः सन्ति। ते स्व-स्व कार्ये विद्यालयस्य सेवां कुर्वन्ति । अस्माकं विद्यालयस्य प्रधानाचार्य अनुशासन प्रियः सन् कठोरः अपि, शिष्याणां सर्वदा हित चिन्तनेन स्नेहस्य मूर्तिरिव प्रतिभाति ।

अस्मिन् विद्यालये हिन्दी भाषा, संस्कृत भाषा, आंगले भाषा, विज्ञानम्, गणितम्, अर्थशास्त्रम्, इतिहासम्, समाजशास्त्रम्, आदयः अनेक विषयाः पाठ्यन्ते । अस्य विद्यालयस्य परीक्षाफलं शत प्रतिशतं भवति । अत्र केवलं पाठ्य विषयाः एव न पाठ्यन्ते अपितु अन्तरे अन्तरे शारीरिकी शिक्षा, नैतिक शिक्षा अपि च प्रदीयते ।।

मम विद्यालयस्य छात्राः क्रीड़ायां, भाषणे, देशे सेवायाम् अपि उत्कृष्टाः सन्ति। एवं मम विद्यालयस्य ख्याति निकट वतिभ्य विद्यालयेभ्यः सर्वाधिकम् अस्ति ।

 

Leave a Comment