रवीन्द्रनाथ ठाकुर (Ravindranath )

रवीन्द्रनाथ ठाकुर (७ मे १८६१- ७ आगस्ट् १९४१) वङ्गभाषायाः कविः, कथालेखकः, सङ्गीतज्ञः, नाटकरचयिता च सन् सः १९ शतकस्य अन्ते विंशतितमशतकस्य आरम्भे च वङ्गसाहित्यस्य वङ्गसङ्गीतस्य च विनूतनं रूपं प्राददात् । तेन रचितस्य सूक्ष्मसंवेदनयुक्तस्य नवीनस्य उत्कृष्टस्य च गीताञ्जलीकाव्यस्य कृते १९१३ तमेवर्षे नोबेल्-साहित्यप्रशस्तिः प्राप्ता । एतेन सः एशियाखण्डे प्रथमनोबेल्-प्रशस्तिविजेता जातः ।कल्कत्तायाः पिरालिब्राह्मणकुटुम्बे जातः रवीन्द्रः स्वस्य अष्टमे वयसि पद्यरचनम् आरब्धवान् ।स्वस्य षोडशे वयसि सः ‘भानुशिङ्घो’ (सूर्यसिंहः) इत्येतेन गुप्तनाम्ना प्रथमं महत्त्वपूर्णं पद्यं प्राकाशयत् । १८७७ तमे वर्षे प्रथमां लघुकथां नाटकञ्च अलिखत् । ब्रिटिश्शासनस्य दृढं खण्डनं कुर्वता तेन भारतीयस्वातन्त्र्यान्दोलनस्य प्रोत्साहनं कृतम् । तेन रचिताः कृतयः तेन संस्थापितः विश्वभारतीविश्वविद्यालयश्च जगते तेन दत्तानि प्रमुखानि उपायनानि । भारतीयसाम्प्रदायिककठिनसीमातः बहिरागतः रवीन्द्रः वङ्गकलाप्रकाराय नूतनां शोभाम् आनयत् । तेन रचिताः दीर्घकथाः, लघुकथाः, पद्यानि, नृत्यनाटकानि, प्रबन्धाश्च राजनैतिक-सामाजित-व्यक्तिगतविषयान् प्रतिफलन्ति । गीताञ्जली (पद्यानि), गोर (सुन्दरमुखी), घरे बैरे (गृहं प्रपञ्चञ्च) इत्यादयः तस्य प्रसिद्धाः कृतयः । तेन रचितानि पद्यानि, लघुकथाः, दीर्घकथाः च साहित्यमौल्याय, जनभाषाप्रयोगाय, विचारशीलवास्तविकतायाः अभिव्यक्त्यै तत्त्वशास्त्रावलोकनाय च श्लाघार्हाः सन्ति । तेन रचितयोः द्वयोः गीतयोः राष्ट्रमान्यता प्राप्ता अस्ति – जन गण मन भारतस्य राष्ट्रगीतत्वेन, अमर् शोनर् बाङ्ग्ला बाङ्ग्लादेशस्य राष्ट्रगीतत्वेन अङ्गीकृतमस्ति ।

Leave a Comment